This page has been fully proofread twice.

पितसादृश्यप्रयोजकसौन्दर्यवदभिन्नं वदनमित्यन्वयबोधः । अरविन्दसुन्दरमिति समासे त्वरविन्दपदेनारविन्दनिरूपितसादृश्यप्रयोजकं लक्ष्यते । तच्चाभेदेन पदार्थैकदेशे सौन्दर्येऽन्वेति । एवंचारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिनं वदनमित्यन्वयबोधः । एकदेशान्वयायोगादरविन्दपदमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकमित्येके । अरविन्दमिव वदनमित्यत्रारविन्दनिरूपितसादृश्यवद्वदनमिति बोधः । सादृश्यस्य निपातार्थतया भेदेन नामार्थान्वये बाधकाभावात्। अरविन्दमिव भातीत्यत्र भातेर्ज्ञानार्थकत्वेऽरविन्दपदस्यारविन्दनिरूपितसादृश्यप्रकारकज्ञानविषये लक्षणा । तस्य चाभेदेन मुखादावन्वयः । शेषं तात्पर्यग्राहकम् । पूर्वोक्तदिशा वा सादृश्यस्यैव प्रकारितासंसर्गेण धात्वर्थेऽन्वयः । अत्रैव सौन्दर्येणेति धर्मोपादाने तृतीयार्थस्य प्रयोज्यत्वस्य सादृश्येऽन्वयात्सौन्दर्यप्रयोज्यारविन्दनिरूपितसादृश्यप्रकारकज्ञान- विषय इति बोधः । आद्यकल्पे त्वरविन्दपदमेव सर्वार्थबोधकमितरतात्पर्यग्राहकमिति ध्येयम् । इयंच सादृश्यस्य पदार्थान्तरत्वमते शाब्दबोधरीतिरुपदर्शिता । तस्य समानधर्मरूपत्वे तु चन्द्र इव मुखमित्यादौ चन्द्रवृत्तिधर्मवन्मुखमिति बोधः । अत्रैवाह्लादकमिति समानधर्मोपादाने इवार्थस्य धर्मस्याह्लादकत्वे पदार्थैकदेशेऽन्वयः । तदसहिष्णुतायां तु चन्द्रनिष्ठाह्लादकत्ववति आह्लादकपदस्य लक्षणा । चन्द्रादिपदं तात्पर्यग्राहकम् ।
चन्द्रसदृशमित्यत्राप्येकदेशे सादृश्ये चन्द्रान्वयः ससंबन्धिकत्वात् । सदृशपदं वा चन्द्रसादृश्य विशिष्टे लाक्षणिकम् । अत्रैवाह्लादकत्वेनेत्युक्तावभेदस्तृतीयार्थस्तस्य च सदृशपदार्थैकदेशे धर्मेऽन्वयः । तथा चाह्लादकत्वाभिन्नचन्द्रवृत्तिधर्मवदभिन्नं मुखमिति बोधः । सदृशपदमेव वा सर्वार्थबोधकमितरतात्पर्यग्राहकमित्येवं- विधान्वयसरणिश्रेणयस्तत्र तत्र शब्दव्युत्पत्तिनिपुणैरनुसंधेयेत्यलं प्रसक्तानुप्रसक्तपरिचिन्तनेन ॥ पूर्णोपमेतीत्यनन्तरमालंकारिकैरिति पूरणीयम् । तत्त्वं च विशेषत उपात्तशब्दशक्तिप्रतिपादितोपमानोपमेयकत्वे सति विशेषतः शब्दोपात्तसमानधर्मकत्वे च सति विशेषतः स्वनिरूढशब्दगम्यत्वं स्वपदमुपमापरम् । उपमानलुप्तायामपि
लक्षणयोपमानप्रतिपत्तेस्तद्वारणाय शक्तीति । उपमेयलुप्तायां स्मरवधूयन्तीत्यादावात्मन उपमेयस्याध्याहृतेनात्मानमिति शब्देन बोधनादुपात्तेति शब्द विशेषणम् । एवमपि तन्वीत्यनेनात्रोपमेयस्य काव्यस्य सदृशं न दृश्यत इत्येवंविधायां लुप्तो-
पमायामुपमानस्य च सदृशपदोपात्तत्वाद्विशेषत इति उपमेयोपमानतावच्छेदकरूपेणेत्यर्थः धर्मलुप्तायामप्युपमावाचकेन सामान्यतो धर्मस्योपात्तत्वाद्विशेषत इति । उपमाप्रयोजकतावच्छेकरूपेणेत्यर्थः । वाचकलुप्तायामपि लक्षणयोपमानादिपदेनोपमावगमात्तद्वारणाय विशेषतः स्वनिरूढेति । उपमायां च निरूढा ’इवद्वायथाशब्दा' इत्याद्यभियुक्तोक्तिसंगृहीता इवादयः । अत्र निपातरूपस्येवादेरुपसर्गवयोतकत्वमेव । कथमन्यथा 'शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यन्रसानिव' इत्यादाववुस्त्रादिपदोत्तरतृतीयादिसङ्गतिः । उस्रादेरुद्धरणक्रियां प्रत्यकरणत्वात् इवार्थे सादृश्यान्वयित्वेन करणीभूतशरविशेषणत्वाभावाञ्च द्योतकत्वे तूस्रादिपदस्योस्रसदृ-