This page has been fully proofread once and needs a second look.


 
कुवलयानन्दः ।
 
[ उपमालंकारः १
 
पितसादृश्य प्रयोजकसौन्दर्यवदभिन्नं वदनमित्यन्वयबोधः । अरविन्दसुन्दरमिति स-
मासे त्वरविन्दपदेनारविन्दनिरूपितसादृश्यप्रयोजकं लक्ष्यते । तच्चाभेदेन पदार्थैक-
देशे सौन्दर्येऽन्वेति । एवंचार विन्दनिरूपितसादृश्यप्रयोजकाभिन्न सौन्दर्य वदभिनं
वदनमित्यन्वयबोधः । एकदेशान्वयायोगादरविन्दपदमेव लक्षणया सर्वार्थबोधकं
सुन्दरपदं तु तात्पर्य ग्राहक मित्येके । अरविन्दमिव वदनमित्यत्रारविन्द निरूपित
सादृश्यवद्वदनमिति बोधः । सादृश्यस्य निपातार्थतया भेदेन नामार्थान्वये बाधका-
भावात्। अरविन्दमिव भातीत्यत्र भातेर्ज्ञानार्थकत्वेऽरविन्दपदस्यारविन्द निरूपित
सादृश्यप्रकारकज्ञानविषये लक्षणा । तस्य चाभेदेन मुखादावन्वयः । शेषं तात्प-
र्यग्राहकम् । पूर्वोक्तदिशा वा सादृश्यस्यैव प्रकारितासंसर्गेण धात्वर्थेऽन्वयः । अ-
त्रैव सौन्दर्येणेति धर्मोपादाने तृतीयार्थस्य प्रयोज्यत्वस्य सादृश्येऽन्वयात्सौन्दर्य-
प्रयोज्यारविन्द निरूपितसादृश्य प्रकारकज्ञान- विषय इति बोधः । आद्यकल्पे त्वरवि-
न्दपदमेव सर्वार्थबोधकमितरतात्पर्य ग्राहक मिति ध्येयम् । इयंच सादृश्यस्य पदार्था-
न्तरत्वमते शाब्दबोधरीतिरुपदर्शिता । तस्य समानधर्मरूपत्वे तु चन्द्र इव मुख-
मित्यादौ चन्द्रवृत्तिधर्मवन्मुखमिति बोधः । अत्रैवाह्लादक मिति समानधर्मोपादाने
इवार्थस्य धर्मस्याह्लादकत्वे पदार्थैकदेशेऽन्वयः । तदसहिष्णुतायां तु चन्द्रनिष्ठा-
ह्लादकत्ववति आह्लादकपदस्य लक्षणा । चन्द्रादिपदं तात्पर्यग्राहकम् ।
चन्द्रसह-
दृशमित्यत्राप्येकदेशे सादृश्ये चन्द्रान्वयः ससंबन्धिकत्वात् । सदृशपदं वा चन्द्र-
सादृश्य विशिष्टे लाक्षणिकम् । अत्रैवाह्लादकत्वेनेत्युक्ताव भेदस्तृतीयार्थस्तस्य च सह-
दृशपदार्थैकदेशे धर्मेऽन्वयः । तथा चाह्लादकत्वाभिन्नचन्द्रवृत्तिधर्मवदभिन्नं मुखमि-
ति बोधः । सदृशपदमेव वा सर्वार्थबोधकमितरतात्पर्य ग्राहकमित्येवं- विधान्वयसर-
णिश्रेणयस्तत्र तत्र शब्दव्युत्पत्तिनिपुणैरनुसंधेयेत्यलं प्रसक्तानुप्रसक्तपरिचिन्त-
नेन ॥ पूर्णोप मेतीत्यनन्तरमालंकारिकैरिति पूरणीयम् । तत्त्वं च विशेषत उपात्त-
शब्दशक्ति प्रतिपादितोपमानोपमेयकत्वे सति विशेषतः शब्दोपात्तसमानधर्मकत्वे
च सति विशेषतः स्वनिरूढशब्दगम्यत्वं स्वपदमुपमापरम् । उपमानलुप्तायामपि

लक्षणयोपमानप्रतिपत्तेस्तद्वारणाय शक्तीति । उपमेयलुप्तायां स्मरवधूयन्तीत्यादा-
वात्मन उपमेयस्याध्याहृतेनात्मान मिति शब्देन बोधनादुपात्तेति शब्द विशेषणम् ।

एवमपि तन्वीत्यनेनात्रोपमेयस्य काव्यस्य सदृशं न दृश्यत इत्येवंविधायां लुप्तो-

पमायामुपमानस्य च सदृशपदोपात्तत्वाद्विशेषत इति उपमेयोपमानतावच्छेदक-
रूपेणेत्यर्थः धर्मलुप्तायामप्युपमावाचकेन सामान्यतो धर्मस्योपात्तत्वाद्विशेषत
इति । उपमाप्रयोजकतावच्छेकरूपेणेत्यर्थः । वाचकलुप्तायामपि लक्षणयोपमा-
नादिपदेनोपमावगमात्तद्वारणाय विशेषतः स्वनिरूढेति । उपमायां च निरूढा 'इव-

षद्वायथाशब्दा' इत्याद्यभियुक्तोक्तिसंगृहीता इवादयः । अत्र निपातरूपस्येवादेरु-
पसर्गवयोतकत्वमेव । कथमन्यथा 'शरैरुखैस्त्रैरिवोदीच्यानुद्ध रिष्यन्रसानिव' इत्यादा-
ववुस्त्रादिपदोत्तरतृतीयादिसङ्गतिः । उस्रादेरुद्धरण क्रियां प्रत्यकरणत्वात् इवार्थे सा-
दृश्यान्वयित्वेन करणीभूतशरविशेषणत्वाभावाञ्च द्योतकत्वे तूस्रादिपदस्योस्रसदृ-

-