This page has been fully proofread twice.

उपसंहारः ।
 
अमुं कुवलयानन्दमकरोदप्पदीक्षितः
नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः
चन्द्रालोको विजयतां शरदागमसम्भवः ।
हृद्यः कुवलयानन्दो यत्प्रसादादभूदयम् ॥ १७२ ॥
 
इति श्रीमदद्वैतविद्याचार्यश्रीमद्विजकुलजलधिकौस्तुभश्रीरङ्गराजाध्वरीन्द्रवरदसूनोरप्पदीक्षितस्य कृतिः कुवलयानन्दः समाप्तः ॥
 
-----------
 
[commentary]
 
ति ॥ तथाहि उदात्ततद्गुणयोरङ्गाङ्गिभावसंकरस्य भ्रान्तिमदुदात्तयोरङ्गाङ्गिभावसंकरस्य चाङ्गाङ्गिभावे च संकरः । तथा भ्रान्तिमदुदात्तयोरङ्गाङ्गिभावसंकरस्यो-
दात्ताङ्गकहेत्वलंकाराविसन्देहसंकरस्य चाङ्गाङ्गिभावेन संकर इति सूक्ष्ममतिभिरूहनीयम् ॥
 
स्वकीर्त्यनुवृत्तये ग्रन्थनाम खनाम चोपनिबध्नन् ग्रन्थपूर्तिमनुवदति -- अमुमिति ॥ स्वग्रन्थस्य प्रामाणिकत्वं सूचयितुमाह -- चन्द्रालोक इति ॥ शरदागमसंज्ञकश्चन्द्रालोकमूलभूतो ग्रन्थः । शरत्कालागमनेन चन्द्रस्यालोक इति श्लेषः । तस्माच्च कुवलयानन्दः स्वग्रन्थोऽभूत् । कुवलयस्य कुमुदस्यानन्द इति च श्लेष इति शिवमास्ताम् ।
 
विद्वद्वृन्दमहामान्यरामचन्द्रात्मजन्मना ।
विदुषा वैद्यनाथेन कृतालंकारचन्द्रिका ॥ १ ॥
 
एनां कुवलयानन्दप्रकाशन विशारदाम् ।
विदांकुर्वन्तु विद्वांसः काव्यतत्त्वविदां वराः ॥ २ ॥
 
असौ कुवलयानन्दश्चन्द्रालोकोत्थितोऽपि सन् ।
प्रतिष्ठां लभते नैव विनालंकारचन्द्रिकाम् ॥ ३ ॥
 
इति श्रीमत्पदवाक्यप्रमाणज्ञतत्सद्रामभट्टात्मजवैद्यनाथकृतालंकारचन्द्रिकाख्या कुवलयानन्दटीका संपूर्णा ॥
 
समाप्तोऽयं ग्रन्थः ।