This page has been fully proofread once and needs a second look.

कुवलयानन्दः ।
 
उपसंहारः ।
 

 
अमुं कुवलयानन्दमकरोदप्पदीक्षितः

नियोगाद्वेङ्कटपतेर्निरुपाधिकृपानिधेः

चन्द्रालोको विजयतां शरदागमसंसम्भवः ।
 

हृद्यः कुवलयानन्दो यत्प्रसादादभूदयम् ॥ १७२ ॥

 
इति श्रीमद द्वैतविद्याचार्य श्रीमद्विजकुलजलधिकौस्तुभश्रीरङ्गराजाध्व-
रीन्द्रवरदसूनोरप्पदीक्षितस्य कृतिः कुवलयानन्दः समाप्तः ॥
 
१८८
 

 
॥ १७१ ॥
 

 
-----------
 
[ उपसंहारः
 
commentary]
 
ति ॥ तथाहि उदात्ततद्गुणयोरङ्गाङ्गिभावसंकरस्य भ्रान्तिमदुदात्तयोरङ्गाङ्गिभाव-
संकरस्य चाङ्गाङ्गिभावे च संकरः । तथा भ्रान्ति मदुदात्तयोरङ्गाङ्गिभावसंकरस्यो-

दात्ताङ्ग कहेवलंकाराविसंसन्देहसंकरस्य चाङ्गाङ्गिभावेन संकर इति सूक्ष्ममतिभिरू
हनीयम् ॥
 

 
स्वकीर्त्यनुवृत्तये ग्रन्थनाम खनाम चोपनिबध्नन् ग्रन्थपूर्तिमनुवदति -- अमु-
मिति ॥ स्वग्रन्थस्य प्रामाणिकत्वं सूचयितुमाह -- चन्द्रालोक इति ॥ शरदा-
गमसंज्ञकश्चन्द्रालोकमूलभूतो ग्रन्थः । शरत्कालागमनेन चन्द्रस्यालोक इति श्लेषः ।
तस्माच्च कुवलयानन्दः स्वग्रन्थोऽभूत् । कुवलयस्य कुमुदस्यानन्द इति च श्लेष
इति शिवमास्ताम् ।
 

 
विद्वद्वृन्दमहामान्यरामचन्द्रात्मजन्मना ।

विदुषा वैद्यनाथेन कृतालंकारचन्द्रिका ॥ १ ॥

 
एनां कुवलयानन्दप्रकाशन विशारदाम् ।

विदांकुर्वन्तु विद्वांसः काव्यतत्त्वविदां वराः ॥ २ ॥

 
असौ कुवलयानन्दश्चन्द्रालोकोत्थितोऽपि सन् ।

प्रतिष्ठां लभते नैव विनालंकारचन्द्रिकाम् ॥ ३ ॥
 

 

 
इति श्रीमत्पदवाक्यप्रमाणज्ञतत्सद्रामभट्टात्मजवैद्यनाथकृता-
लंकारचन्द्रिकाख्या कुवलयानन्दटीका संपूर्णा ॥
 

 
समाप्तोऽयं ग्रन्थः ।