This page has not been fully proofread.

संकरसंकरालंकारः १२४] अलंकारचन्द्रिकासहितः । १८७
 
लिङ्गालंकारश्चेति तयोरेक वाचकानुप्रवेशसंकरस्तन्मूलः शङ्कितधिय इत्यत्र
भ्रान्तिमदलंकारस्ताभ्यां चोदात्तालंकारश्चारुतां नीत इति तयोश्च तस्य चा-
ङ्गाङ्गिभावसंकरः । एवं विद्वद्द्वेहवैभवस्य हेतुमतो राज्ञो वितरणविलासस्य
हेतोश्चाभेदकथनं हेत्वलंकारः । स च राज्ञो वितरणविलासस्य निरतिशयो-
त्कर्षाभिव्यक्तिपर्यवसायी । एतावन्मात्रे कविसंरम्भश्वेदुक्तरूपोदात्तालंकारप-
रिष्कृते हेत्वलंकारे विश्रान्तिः । कीदृशी संपदिति प्रश्नोत्तरतया निरतिशयै-
श्वर्यवितरणरूपा प्रस्तुतकार्यमुखेन तदीयसंपदुत्कर्षप्रशंसने कविसंरम्भश्चेत्का
र्य निबन्धनाप्रस्तुतप्रशंसालंकारे विश्रान्तिः । कार्यस्यापि वर्णनीयत्वेन प्रस्तु-
तत्वाभिप्राये तु प्रस्तुताङ्कुरे विश्रान्तिः । अत्र विशेषानध्यवसायात्संदेहसंक-
रः । किंच विद्वद्गृहवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतयातिशयोक्तेरुदा-
त्तालंकारेण सह्रैकवाचकानुप्रवेशसंकरः । निरतिशयवितरणोत्कर्षपर्यवसायिनो
हेत्वलंकारस्यात्यद्भुतातथ्यौदार्यवर्णनात्मिकयात्युक्त्या सह्रैकवाचकानुप्रवेशसं-
करः । तन्मूलकस्याप्रस्तुतप्रशंसालंकारस्य प्रस्तुताङ्कुरस्य वा राजसंपत्समृ
द्विवर्णनात्मकोदात्तालंकारेण सह्रैकवाचकानुप्रवेशसंकरः । वाचकशब्दस्य
प्रतिपादकमात्रपरतया व्यञ्जकसाधारण्यादेषां च त्रयाणामेकवाचकानुप्रवेश-
संकराणां समप्राधान्यसंकरः । न ह्येतेषां परस्परमन्यत्राङ्गत्वमस्ति ॥
 
उदात्तादिमात्रस्यैव हेत्वलंकारादिचारुतापादकत्वेनातिशयोक्तिसंकरस्याङ्ग-
तयानपेक्षणात् । एवमत्र लोके चतुर्णामपि संकराणां यथायोग्यं संकरः ।
एवमन्यत्राप्युदाहरणान्तराण्यूह्यानि ॥
 
तयोस्तद्गुणकाव्यलिङ्गयोः । तन्मूलः संकरमूलः । ताभ्यां संकरभ्रान्तिमद्भ्याम् ।
तयोः संकरभ्रान्तिमतोः । तस्य उदात्तस्य । हेतुमतः कार्यस्य अभेदकथनं तत्त्या-
गलीलायितस्य कार्यमिति वक्तव्ये तदेव त्यागलीलायितमित्यभेदकथनम् ॥ त
दीयेति ॥ राजकीयेत्यर्थः ॥ अतथ्यौदार्येति ॥ असत्यौदार्येत्यर्थः ॥ तन्मू-
लकस्येति ॥ वितरणोत्कर्षपर्यवसायि हेत्वलंकारमूलकस्येत्यर्थः । ननु राजसं-
पत्समृद्धेर्व्यञ्जनागम्यत्वेनावाच्यत्वात्कथं तद्वर्णनात्मकोदात्तालंकारेण सह्रैकवाच -
कानुप्रवेशकथनमित्याशङ्कायामाह-वाचकशब्दस्येति ॥ त्रयाणामिति ॥
एक उदात्तातिशक्तयोरपरो हेत्वत्युत्त्योरन्यो व्यङ्ग्योदात्ताप्रस्तुत प्रशंसा प्रस्तुता-
कुरान्यतरयोरित्येवं त्रयाणां परस्परमित्यर्थः ॥
 

 
उदात्तालंकारस्य हेत्वलंकाराङ्गतायाः पूर्वमुक्तवाददात्तातिशयोक्तिसंकरस्यापि
तदङ्गत्वमिति शङ्कां निरस्यति - उदात्तादिमात्रस्यैवेति ॥ उदात्तादीत्यादि-
पदेन हेत्वलंकारपरिग्रहः । हेवलंकारादीत्यादिपदेन चाप्रस्तुतप्रशंसापरिग्रहः ।
तत्रापि निरतिशयैश्वर्य वितरणोत्कर्षपर्यवसायिनो हेवलंकारस्यैव तादृशवितरणरू-
पकार्यपरिष्कारद्वारा तद्गम्य प्रस्तुतराज संपदुत्कर्ष प्रशंसारूपायामप्रस्तुत प्रशंसायाम-
ङ्गत्वं न त्वद्भुतातथ्यवर्णनरूपात्युक्तिसंकरस्यापेक्षेति भावः ॥ यथायोग्यमि-
M