This page has been fully proofread twice.

लिङ्गालंकारश्चेति तयोरेकवाचकानुप्रवेशसंकरस्तन्मूलः शङ्कितधिय इत्यत्र भ्रान्तिमदलंकारस्ताभ्यां चोदात्तालंकारश्चारुतां नीत इति तयोश्च तस्य चाङ्गाङ्गिभावसंकरः । एवं विद्वद्गेहवैभवस्य हेतुमतो राज्ञो वितरणविलासस्य हेतोश्चाभेदकथनं हेत्वलंकारः । स च राज्ञो वितरणविलासस्य निरतिशयोत्कर्षाभिव्यक्तिपर्यवसायी । एतावन्मात्रे कविसंरम्भश्चेदुक्तरूपोदात्तालंकारपरिष्कृते हेत्वलंकारे विश्रान्तिः । कीदृशी संपदिति प्रश्नोत्तरतया निरतिशयैश्वर्यवितरणरूपा प्रस्तुतकार्यमुखेन तदीयसंपदुत्कर्षप्रशंसने कविसंरम्भश्चेत्कार्यनिबन्धनाप्रस्तुतप्रशंसालंकारे विश्रान्तिः । कार्यस्यापि वर्णनीयत्वेन प्रस्तुतत्वाभिप्राये तु प्रस्तुताङ्कुरे विश्रान्तिः । अत्र विशेषानध्यवसायात्संदेहसंकरः । किंच विद्वद्गृहवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतयातिशयोक्तेरुदात्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । निरतिशयवितरणोत्कर्षपर्यवसायिनो
हेत्वलंकारस्यात्यद्भुतातथ्यौदार्यवर्णनात्मिकयात्युक्त्या सहैकवाचकानुप्रवेशसंकरः । तन्मूलकस्याप्रस्तुतप्रशंसालंकारस्य प्रस्तुताङ्कुरस्य वा राजसंपत्समृद्धिवर्णनात्मकोदात्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । वाचकशब्दस्य
प्रतिपादकमात्रपरतया व्यञ्जकसाधारण्यादेषां च त्रयाणामेकवाचकानुप्रवेशसंकराणां समप्राधान्यसंकरः । न ह्येतेषां परस्परमन्यत्राङ्गत्वमस्ति ॥
 
उदात्तादिमात्रस्यैव हेत्वलंकारादिचारुतापादकत्वेनातिशयोक्तिसंकरस्याङ्गतयानपेक्षणात् । एवमत्र लोके चतुर्णामपि संकराणां यथायोग्यं संकरः । एवमन्यत्राप्युदाहरणान्तराण्यूह्यानि ॥
 
[commentary]
 
तयोस्तद्गुणकाव्यलिङ्गयोः । तन्मूलः संकरमूलः । ताभ्यां संकरभ्रान्तिमद्भ्याम् । तयोः संकरभ्रान्तिमतोः । तस्य उदात्तस्य । हेतुमतः कार्यस्य अभेदकथनं तत्त्यागलीलायितस्य कार्यमिति वक्तव्ये तदेव त्यागलीलायितमित्यभेदकथनम् ॥ तदीयेति ॥ राजकीयेत्यर्थः ॥ अतथ्यौदार्येति ॥ असत्यौदार्येत्यर्थः ॥ तन्मूलकस्येति ॥ वितरणोत्कर्षपर्यवसायिहेत्वलंकारमूलकस्येत्यर्थः । ननु राजसं-पत्समृद्धेर्व्यञ्जनागम्यत्वेनावाच्यत्वात्कथं तद्वर्णनात्मकोदात्तालंकारेण सहैकवाचकानुप्रवेशकथनमित्याशङ्कायामाह -- वाचकशब्दस्येति ॥ त्रयाणामिति ॥
एक उदात्तातिशक्त्योरपरो हेत्वत्युत्क्त्योरन्यो व्यङ्ग्योदात्ताप्रस्तुतप्रशंसाप्रस्तुता-ङ्कु- रान्यतरयोरित्येवं त्रयाणां परस्परमित्यर्थः ॥
 
उदात्तालंकारस्य हेत्वलंकाराङ्गतायाः पूर्वमुक्तत्वादुदात्तातिशयोक्तिसंकरस्यापि तदङ्गत्वमिति शङ्कां निरस्यति -- उदात्तादिमात्रस्यैवेति ॥ उदात्तादीत्यादिपदेन हेत्वलंकारपरिग्रहः । हेवलंकारादीत्यादिपदेन चाप्रस्तुतप्रशंसापरिग्रहः । तत्रापि निरतिशयैश्वर्यवितरणोत्कर्षपर्यवसायिनो हेवलंकारस्यैव तादृशवितरणरू-
पकार्यपरिष्कारद्वारा तद्गम्यप्रस्तुतराजसंपदुत्कर्षप्रशंसारूपायामप्रस्तुतप्रशंसायामङ्गत्वं न त्वद्भुतातथ्यवर्णनरूपात्युक्तिसंकरस्यापेक्षेति भावः ॥ यथायोग्यमि-