This page has been fully proofread twice.

विधुकरपरिरम्भादात्तनिष्यन्दपूर्णै:
शशिदृषदुपक्लृप्तैरालवालैस्तरूणाम् ।
विफलितजलसेकप्रक्रियागौरवेण
व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥
 
अत्र हि प्रतिपाद्यमानोऽर्थः समृद्धिमद्वस्तुवर्णनमुदात्तमिति लक्षणानुसारादुदात्तालंकाररूपः असंबन्धे संबन्धकथनमतिशयोक्तिरिति लक्षणादतिशयोक्तिश्च । नच सर्वत्रोदात्तस्यासंबन्धे संबन्धवाचनरूपत्वं निर्णीतमिति न विविक्तालंकारद्वयलक्षणसमावेशोऽस्तीति वाच्यम् । दिव्यलोकगतसंपत्समृद्धिवर्णनादिष्वतिशयास्पृष्टस्योदात्तस्य शौर्यौदार्यदारिद्र्यादिविषयवर्णनेषूदात्तास्पृष्टाया अतिशयोक्तेश्च परस्परविविक्ततया विश्रान्तेः । तयोश्चेहार्थवशसंपन्नसमावेशयोर्नाङ्गाङ्गिभावः । एकेनापरस्यानुत्थापनात्स्वातन्त्र्यपारतन्त्र्यविशेषादर्शनाच्च । नापि समप्राधान्यम् । यैः शब्दैरिह संबन्धि वस्तु प्रतिपाद्यते तैरेव तस्यैव वस्तुनोऽसंबन्धे संबन्धरूपस्य प्रतिपाद्यमानतया भिन्नप्रतिपादकशब्दव्यवस्थितार्थभेदाभावात् । नापि संदेहसंकरः । एकालंकारकोट्यां तदन्यालंकारकोटिप्रतिक्षेपाभावात् । तस्मादिहोदात्तातिशयोक्त्योरेकवाचकानुप्रवेशलक्षणः संकरः ।
 
----------------
 
संकरसंकरालंकारः १२४
 
क्वचित्संकराणामपि संकरो दृश्यते । यथा --
 
मुक्ता: केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः
प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः ।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका
यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥
 
अत्र तावद्विदुषां संपत्समृद्धिवर्णनमुदात्तालंकारस्तन्मूलको बालाङ्घ्रिलाक्षारुणा इत्यत्र तद्गुणालंकारस्तत्रैव वक्ष्यमाणभ्रान्त्युपपादकः पदार्थहेतुककाव्य-
 
[commentary]
 
विधुकरेति ॥ स हंसस्तत्र भैमीवनेन दमयन्त्या उद्यानेन हृतचित्तो व्यरचि कृतः । कथंभूतेन । चन्द्रकिरणाश्लेषादात्तैरङ्गीकृतैर्निष्यन्दैः पूर्णैश्चन्द्रकान्तघटितैस्तरूणामालवालैर्विफलीकृतजलसेकप्रकाररूपगौरवेणेत्यर्थः ॥ शब्दव्यवस्थितेति ॥ शब्दप्रयुक्तेत्यर्थः । तथाच समप्राधान्यमर्थभेदविषयमिति भावः । प्रतिक्षिप्यते निवार्यते कोट्यन्तरमनेनेति प्रतिक्षेपो विरोधः ॥
 
मुक्ता इति ॥ विदुषां भवनेषु मन्दिरेषु केलौ सुरतक्रीडायां विच्छिन्नसूत्राद्धाराद्गलिताः संमार्जनीभिरपसारिताः प्रातःकालेऽङ्गणसीमान्ते मन्दं चलतां बालानां चरणलाक्षारसेनारुणा मुक्ताः दूराद्दाडिमबीजशङ्कितधियः क्रीडाशुका यत्कर्षन्त्याकर्षन्ति तद्भोजनृपतेस्त्यागस्य दानस्य लीलायितमित्यन्वयः । तत्रैव बालाङ्घ्रिलाक्षारुणा इत्यत्रैव ॥ वक्ष्यमाणेति ॥ शङ्कितधिय इति वक्ष्यमाणेत्यर्थः ।