This page has been fully proofread once and needs a second look.

१८६
 
कुवलयानन्दः । [संकरसंकरालंकार: १२४
 
विधुकरपरिरम्भादात्तनिष्यन्दपूर्णै:

शशिदृषदुपक्कॢसैलृप्तैरालवालैस्तरूणाम् ।

विफलितजल से कप्रक्रियागौरवेण

व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥
 

 
अत्र हि प्रतिपाद्यमानोऽर्थः समृद्धिमद्वस्तुवर्णनमुदात्तमिति लक्षणानुसा
रादुदात्तालंकाररूपः असंबन्धे संबन्धकथनमतिशयोक्तिरिति लक्षणादतिश-
योक्तिश्च । नच सर्वत्रोदात्तस्यासंबन्धे संबन्धवाचनरूपत्वं निर्णीतमिति न
विविक्तालंकारद्वयलक्षणसमावेशोऽस्तीति वाच्यम् । दिव्यलोकगतसंपत्समृ-
द्धिवर्णनादिष्वतिशयास्पृष्टस्योदात्तस्य शौयौंदा र्यौदार्यदारिद्र्यादिविषयवर्णनेषूदात्ता-
स्पृष्टाया अतिशयोक्तेश्च परस्परविविक्ततया विश्रान्तेः । तयोश्चेहार्थवशसंप-
न्नसमावेशयोर्नाङ्गाङ्गिभावः । एकेनापरस्यानुत्थापनात्स्वातन्त्र्यपारतत्र्य विशे
षादर्शनाञ्च्च । नापि समप्राधान्यम् । यैः शब्दैरिह संबन्धि वस्तु प्रतिपाद्यते
तैरेव तस्यैव वस्तुनोऽसंबन्धे संन्धरूपस्य प्रतिपाद्यमानतया भिन्न प्रतिपाद-
कशब्दव्यवस्थितार्थभेदाभावात् । नापि संदेहसंकरः । एकालंकारकोट्यां त
दन्यालंकारकोटिप्रतिक्षेपाभावात् । तस्मादिहोदात्तातिशयोक्त्योरेकवाचकानु-
प्रवेशलक्षणः संकरः ।
 

 
----------------
 
संकरसंकरालंकारः १२४
 
-
 

 
क्वचित्संकराणामपि संकरो दृश्यते । यथा -
-
 
मुक्ता: केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः

प्रातः प्राङ्गणसीम्नि मन्थरचलद्वाबालाङ्गिघ्रिलाक्षारुणाः ।

दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका
 
यद्विद्वन्द्व

यद्विद्वद्भ
वनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥

 
अत्र तावद्विदुषां संपत्समृद्धिवर्णन मुदात्तालंकारस्तन्मूलको बालाङ्गिघ्रिलाक्षा-
रुणा इत्यत्र तद्गुणालंकारस्तत्रैव वक्ष्यमाणभ्रान्त्युपपादकः पदार्थहेतुककाव्य-

 
[commentary]
 
विधुकरेति ॥ स हंसस्तत्र भैमीवनेन दमयन्त्या उद्यानेन हृतचित्तो व्यरचि
कृतः । कथंभूतेन । चन्द्रकिरणाश्लेषादात्तैरङ्गीकृतैर्निष्यन्दैः पूर्णैश्चन्द्रकान्तघटितै-
स्तरूणामालवालैर्विफलीकृतजलसेक प्रकार प्रकाररूपगौरवेणेत्यर्थः ॥ शब्दव्यवस्थि-
तेति ॥ शब्दप्रयुक्तेत्यर्थः । तथाच समप्राधान्यमर्थभेदविषयमिति भावः । प्रति-
क्षिप्यते निवार्यते कोट्यन्तरमनेनेति प्रतिक्षेपो विरोधः ॥
 
-
 

 
मुक्ता इति ॥ विदुषां भवनेषु मन्दिरेषु केलौ सुरतक्रीडायां विच्छिन्नसूत्रा-
द्धाराद्गलिताः संमार्जनीभिरपसारिताः प्रातःकालेऽङ्गणसीमान्ते मन्दं चलतां बा
लानां चरणलाक्षारसेनारुणा मुक्ताः दूराद्दाडिमबीजशङ्कितधियः क्रीडाशुका यत्क-
र्षन्त्याकर्षन्ति तद्भोजनृपतेस्त्यागस्य दानस्य लीलायितमित्यन्वयः । तत्रैव बाला-
मि
ङ्घ्रिलाक्षारुणा इत्यत्रैव ॥ वक्ष्यमाणेति ॥ शङ्कितधिय इति वक्ष्यमाणेत्यर्थः ।