2023-04-28 09:28:30 by Bharadwajraki
This page has been fully proofread twice.
एकस्मिन्वाचकेऽनुप्रवेशो वाच्ययोरेवालंकारयोः स्वारसिको वाच्यप्रतियोगिकत्वाद्वाचकस्येति मत्वार्थालंकारयोरप्येकवाचकानुप्रवेशसंकरमुदाजहार ।
सत्पुष्करद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाद्ये ।
उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ॥
अत्र नाट्यगृहवापीपयसोः सत्पुष्करेत्यादिविशेषणं शब्दसाम्यं श्लेषः, अमन्दमारब्धेत्यादिविशेषणेऽर्थसाम्यमुपमा, तदुभयमेकस्मिन्निवशब्देऽनुप्रविष्टमिति तदपि न मन्यामहे । सत्पुष्करेत्यादिविशेषणेऽपि श्लेषभित्तिकाभेदाध्यवसायरूपातिशयोक्तिलभ्यस्य धर्मसाम्यस्यैव तत्रेवशब्दप्रतिपाद्यतया शब्दसाम्यस्य तदप्रतिपाद्यत्वात् । श्लेषभित्तिकाभेदाध्यवसायेन धर्मसाम्यमतानङ्गीकारे 'अहो रागवती सन्ध्या जहाति स्वयमम्बरम्' इत्यादिश्लिष्टविशेषणसमासोक्त्युदाहरणे विशेषणसाम्याभावेन समासोक्त्यभावप्रसङ्गात् । शब्दसाम्यस्येवशब्दप्रतिपाद्यत्वेऽपि तस्योपमावाचकत्वस्यैव प्राप्त्या श्लेषवाचकत्वाभावाच्च । शब्दतोऽर्थतो वा कविसंमतसाम्यप्रतिपादने सर्वविधेऽप्युपमालंकारस्वीकारात् । अन्यथा --
'यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा ।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥'
इत्यत्राप्युपमा न स्यात् । नह्यत्रान्वर्थनामरूपशब्दसाम्यं विना किंचिदर्थसाम्यं कविविवक्षितमस्ति । तस्माद्यत्रैकस्मिन्नर्थे प्रतिपाद्यमाने अलंकारद्वयप्रतीतिस्तत्र तयोरलंकारयोरेकवाचकानुप्रवेशः ॥
[Commentary]
णानां हृदयलुण्ठनं परिसर्पन्तीं निवारयति' इति संस्कृतम् । अत्र पूर्वोर्धेऽनुप्रासस्तृतीयपादे रूपकमिति तयोः संसृष्टिः ॥ वाच्यप्रतियोगिकत्वादिति ॥ वाच्यं प्रतियोगि प्रतिसंबन्धि यस्य तद्वाच्यप्रतियोगिकं तत्त्वादित्यर्थः । एवंच काव्यावाच्यस्यानुप्रासादेः शब्दालंकारस्य तदनुप्रवेशो न वाचकानुप्रवेश इति वक्तुं युक्तमिति भावः ॥
सत्पुष्करेति ॥ यस्यां नगर्यामेणीदृश उद्यानसंबन्धिवापीपयसीव नाट्यगृहे रमन्ते क्रीडन्ति । कीदृशैः । समीचीनैः पुष्करैः कमलैः द्योतिनो ये तरङ्गास्तच्छोभावति । गृहपक्षे समीचीनैः पुष्करैर्वाद्यभाण्डमुखैर्द्योतितो यो रङ्गो नृत्यभूमिस्तच्छोभिनीत्यर्थः । 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले । व्योम्नि खड्गफले पद्मे' इत्यमरः ॥ श्लेषभित्तिकेति ॥ श्लेषो भित्तिरिव भित्तिर्मूलं यस्येत्यर्थः ॥ रागवतीति ॥ रागोऽनुरागो रक्तिमा च । अम्बरमाकाशं वस्त्रं च । नन्वत्र विशेषणसाम्यायाभेदाध्यवसायापेक्षणेऽपि सत्पुष्करेत्यादौ शब्दसाम्यमात्रेणाप्युपमोपपत्तेर्न तदपेक्षेत्यत आह -- शब्देति ॥ शब्दतोऽर्थतो वेति । शब्दप्रयुक्तमर्थप्रयुक्तं वा यत्कविसंमतं साम्यं तत्प्रतिपादन इत्यर्थः । सर्वविधे सर्वप्रकारे ।
यथेति ॥ 'चदि आह्लादने' इति धात्वनुसाराच्चन्द्रपदमन्वर्थम् । अन्वर्थोऽन्वर्थनामा । तस्मान्मतद्वयस्याप्ययुक्तत्वात् ॥