This page has been fully proofread once and needs a second look.

एकवचनानुप्रवेशसं० १२३] अलंकारचन्द्रिकासहितः । १८५
एकस्मिन्वाचकेऽनुप्रवेशो वाच्ययोरेवालंकारयोः स्वारसिको वाच्य प्रतियोगि
कत्वाद्वाचकस्येति मत्वार्थालंकारयोरप्येकवाचकानुप्रवेशसंकरमुदाजहार ।
 

 
सत्पुष्करद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाद्ये ।
 

उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ॥

 
अत्र नाट्यगृहवापीपयसोः सत्पुष्करेत्यादिविशेषणं शब्दसाम्यं श्लेषः, अ
मन्दमारब्धेत्यादिविशेषणेऽर्थसाम्यमुपमा, तदुभय मेकस्मिन्निवशब्देऽनुप्रवि
ष्टमिति तदपि न मन्यामहे । सत्पुष्करेत्यादिविशेषणेऽपि श्लेषभित्तिका भेदा
ध्यवसायरूपातिशयोक्तिलभ्यस्य धर्मसाम्यस्यैव तत्रेवशब्दप्रतिपाद्यतया शब्द
साम्यस्य तदप्रतिपाद्यत्वात् । श्लेषभित्तिकाभेदाध्यवसायेन धर्मसाम्यमतानङ्गी
कारे 'अहो रागवती सन्ध्या जहाति स्वयमम्बरम्' इत्यादिश्लिष्टविशेषणस
मासोत्क्त्युदाहरणे विशेषणसाम्याभावेन समासोक्त्यभावप्रसङ्गात् । शब्दसा.
म्यस्येवशब्द प्रतिपाद्यत्वेऽपि तस्योपमावाचकत्वस्यैव प्राप्त्या श्लेषवाचकत्वाभा
वाच्च । शब्दतोऽर्थतो वा कविसंमतसाम्यप्रतिपादने सर्व विधेऽप्युपमालंकार
स्वीकारात् । अन्यथा -
 
-
 
'यथा प्रह्लादनाञ्च्चन्द्रः प्रतापात्तपनो यथा ।

तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥'
 

 
इत्यत्राप्युपमा न स्यात् । नह्यत्रान्वर्थनाम रूपशब्दसाम्यं विना किंचिदर्थ
साम्यं कविविवक्षितमस्ति । तस्माद्यत्रैकस्मिन्नर्थे प्रतिपाद्यमाने अलंकारद्वयप्र
तीतिस्तत्र तयोरलंकारयोरेकवाचकानुप्रवेशः ॥
 

 
[Commentary]
 
णानां हृदयलुण्ठनं परिसर्पन्तीं निवारयति' इति संस्कृतम् । अत्र पूर्वोर्धेऽनुप्रास
स्तृतीयपादे रूपकमिति तयोः संसृष्टिः ॥ वाच्यप्रतियोगिकत्वादिति ॥
वाच्यं प्रतियोगि प्रतिसंबन्धि यस्य तद्वाच्यप्रतियोगिकं तत्त्वादित्यर्थः । एवंच
काव्यावाच्यस्यानुप्रासादेः शब्दालंकारस्य तदनुप्रवेशो न वाचकानुप्रवेश इति
वक्तुं युक्तमिति भावः ॥
 

 
सत्पुष्करेति ॥ यस्यां नगर्यामेणीदृश उद्यानसंबन्धिवापीपयसीव नाट्यगृहे
रमन्ते क्रीडन्ति । कीदृशैः । समीचीनैः पुष्करैः कमलैः द्योतिनो ये तरङ्गास्तच्छो.
भावति । गृहपक्षे समीचीनैः पुष्करैर्वाद्यभाण्ड मुखैद्यर्द्योतितो यो रङ्गो नृत्यभूमिस्त.
च्छोभिनीत्यर्थः । 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले । व्योम्नि खड्गफले
पद्मे' इत्यमरः ॥ श्लेषभित्तिकेति ॥ श्लेषो भित्तिरिव भित्तिर्मूलं यस्येत्यर्थः ॥
रागवतीति ॥ रागोऽनुरागो रक्तिमा च । अम्बरमाकाशं वस्त्रं च । नन्वत्र
विशेषणसाम्यायाभेदाध्यवसायापेक्षणेऽपि सत्पुष्करेत्यादौ शब्दसाम्यमात्रेणाप्यु.
पमोपपत्तेर्न तदपेक्षेत्यत आह -- शब्देति ॥ शब्दतोऽर्थतो वेति । शब्दप्रयुक्त-
मर्थप्रयुक्तं वा यत्कविसंमतं साम्यं तत्प्रतिपादन इत्यर्थः । सर्वविधे सर्वप्रकारे ।

यथेति ॥ 'चदि आह्लादने' इति धात्वनुसाराच्चन्द्रपदमन्वर्थम् । अन्वर्थोऽन्वर्थ
नामा । तस्मान्मतद्वयस्याप्ययुक्तत्वात् ॥
 
-
 
-