2023-04-28 09:20:15 by Bharadwajraki
This page has been fully proofread twice.
अत्र यद्येतावत्साधनं संपद्येत तदा तापः शाम्यतीत्यर्थे कविसंरम्भश्चेत्तदैतदुपात्तसिद्ध्यर्थमूह इति संभावनालंकारः । एतावत्साधनं कदापि न संभवत्येवातस्तापशान्तिरपि गगनकुसुमकल्पेत्यर्थे कविसंरम्भश्चेदुपात्तमिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनारूपा मिथ्याध्यवसितिरित्युभयतासंभवात्संदेहः ।
एवम् --
'सिक्तं स्फटिककुम्भान्तः स्थितिश्वेतीकृतैर्जलैः ।
मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः ॥'
इत्यादिष्वपि संभावनामिथ्याध्यवसितिसंदेहसंकरो द्रष्टव्यः ॥
-------------
एकवचनानुप्रवेशसंकरः १२३
मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी ।
फलसंदोहगुरुणा तरुणा किं प्रयोजनम् ॥
अत्र महोरगवृत्तान्ते वर्ण्यमाने राजद्वाररूढखलवृत्तान्तोऽपि प्रतीयते । तत्र किं वस्तुतस्तथाभूतोरगवृत्तान्त एव प्रस्तुतेऽप्रस्तुतः खलवृत्तान्तस्ततः प्रतीयत इति समासोक्तिः, यद्वा प्रस्तुतखलवृत्तान्तप्रत्यायनायाप्रस्तुतमहोरगवृत्तान्तकीर्तनमप्रस्तुतप्रशंसा, यद्वा वर्ण्यमानमहोरगवृत्तान्तकीर्तनेन समीपस्थितखलमर्मोद्घाटनं क्रियत इति उभयस्यापि प्रस्तुतत्वात्प्रस्तुताकर इति संदेहः । एकवाचकानुप्रवेशसंकरस्तु शब्दार्थालंकारयोरेवेति लक्षयित्वा काव्यप्रकाशकार उदाजहार --
स्पष्टोच्छ्वसत्किरणकेसरसूर्यबिम्ब-
विस्तीर्णकर्णिकमथो दिवसारविन्दम् ।
श्लिष्टाष्टदिग्दलकलापमुखावतार-
बद्धान्धकारमधुपावलि संचुकोच ॥
अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ यत्रैकस्मिन् श्लोके पदभेदेन शब्दार्थालंकारयोः स्थितिस्तत्र तयोः संसृष्टिरिह तु संकर इति । अलंकारसर्वस्वकारस्तु
[commentary]
जडभावः शैत्यम् । मदन एव शिखी वह्निः । संरम्भस्तात्पर्यम् ॥ सिक्तमिति ॥
स्फटिककुम्भान्तः स्थित्या श्वेतीकृतैर्जलैः सिक्तं मौक्तिकमित्यन्वयः ॥
मुखेनेति ॥ संदोहः समूहः ॥ लक्षयित्वेति ॥ स्फुटमेकत्र विषये शब्दार्थालंकृतिद्वयमिति सूत्रेणेत्यर्थः ॥ स्पष्टेति ॥ अथो अनन्तरं दिवसरूपमरविन्दं कमलं संचुकोच संकोचमगमत् । कीदृक् । स्पष्टमुच्छ्वसन्त उल्लसन्तः किरणा एव केसराणि यस्यास्तथाभूता सूर्यबिम्बरूपा विस्तीर्णा कर्णिका वराटो यस्य तत् । श्लिष्टा प्रकाशाभावेन परस्परं मिलिता अष्ट दिश एव दलानां कलापस्तन्मुखेनावतारो यस्यास्तादृशी बद्धा अन्धकाररूपा मधुपावलिर्येन तथाभूतमित्यर्थः । पदभेदेनेति ॥ 'सो णत्थि एत्थ गामे जो एअं महमहंतलाअण्णम् । तरुणाणं
हिअअल्लुडिं परिसप्पन्ति णिवारेइ' ॥ 'स नास्त्यत्र ग्रामे य एतां स्फुरल्लावण्यां तरु-
एवम् --
'सिक्तं स्फटिककुम्भान्तः स्थितिश्वेतीकृतैर्जलैः ।
मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः ॥'
इत्यादिष्वपि संभावनामिथ्याध्यवसितिसंदेहसंकरो द्रष्टव्यः ॥
-------------
एकवचनानुप्रवेशसंकरः १२३
मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी ।
फलसंदोहगुरुणा तरुणा किं प्रयोजनम् ॥
अत्र महोरगवृत्तान्ते वर्ण्यमाने राजद्वाररूढखलवृत्तान्तोऽपि प्रतीयते । तत्र किं वस्तुतस्तथाभूतोरगवृत्तान्त एव प्रस्तुतेऽप्रस्तुतः खलवृत्तान्तस्ततः प्रतीयत इति समासोक्तिः, यद्वा प्रस्तुतखलवृत्तान्तप्रत्यायनायाप्रस्तुतमहोरगवृत्तान्तकीर्तनमप्रस्तुतप्रशंसा, यद्वा वर्ण्यमानमहोरगवृत्तान्तकीर्तनेन समीपस्थितखलमर्मोद्घाटनं क्रियत इति उभयस्यापि प्रस्तुतत्वात्प्रस्तुताकर इति संदेहः । एकवाचकानुप्रवेशसंकरस्तु शब्दार्थालंकारयोरेवेति लक्षयित्वा काव्यप्रकाशकार उदाजहार --
स्पष्टोच्छ्वसत्किरणकेसरसूर्यबिम्ब-
विस्तीर्णकर्णिकमथो दिवसारविन्दम् ।
श्लिष्टाष्टदिग्दलकलापमुखावतार-
बद्धान्धकारमधुपावलि संचुकोच ॥
अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ यत्रैकस्मिन् श्लोके पदभेदेन शब्दार्थालंकारयोः स्थितिस्तत्र तयोः संसृष्टिरिह तु संकर इति । अलंकारसर्वस्वकारस्तु
[commentary]
जडभावः शैत्यम् । मदन एव शिखी वह्निः । संरम्भस्तात्पर्यम् ॥ सिक्तमिति ॥
स्फटिककुम्भान्तः

हिअअ