This page has been fully proofread twice.

'पिनष्टीव तरङ्गायैःग्रैः समुद्रः फेनचन्दनम् ।
तदादाय कैरेरिन्दुर्लिम्पतीव दिगङ्गनाः ॥'
 
इत्यत्रोत्प्रेक्षयोः कालभेदेऽपि समप्राधान्यम् । अन्योन्यनिरपेक्षवाक्यद्वयोपात्तत्वात् । तदादायेति फेनचन्दनरूपकमात्रोपजीवनेन पूर्वोत्प्रेक्षानपेक्षणात् । नचैवं लिम्पतीव तमोऽङ्गानीतिवदुत्प्रेक्षाद्वयस्य संसृष्टिरेचेवेयमिति वाच्यम् । लौकिकसिद्धपेषणलेपनपौर्वापर्यच्छायानुकारिणोत्प्रेक्षाद्वयपौर्वापर्येण चारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात् । तस्माद्दर्शादिवदेकफलसाधनतया समप्रधानमिदमुत्प्रेक्षाद्वयम् । एवं समप्रधानसंकरोऽपि व्याख्यातः ॥
 
--------------
 
संदेहसंकरालंकारः १२२
 
संदेहसंकरो यथा --
 
शशिनमुपगतेयं कौमुदी मेघमुक्तं
जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौरा:
श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥
 
अत्र इयमिति सर्वनाम्ना यद्यजं वृतवतीन्दुमती विशिष्टरूपेण निर्दिश्यते तदा बिम्बप्रतिबिम्बभावापन्नधर्मविशिष्टयोः सदृशयोरैक्यारोपरूपा निदर्शना । यदि तेन सा स्वरूपेणैव निर्दिश्यते, बिम्बभूतो धर्मस्तु पूर्वप्रस्तावात्समगुणयोगप्रीतय इति पौरविशेषणाञ्च्चावगम्यते, तत्र प्रस्तुते धर्मिणि तद्वृत्तान्तप्रतिबिम्बभूताप्रस्तुतवृत्तान्तारोपरूपं ललितमित्यनध्यवसायात्संदेहः ॥
 
विलीयेन्दुः साक्षादमृतरसवापी यदि भवे-
त्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् ।
ततः स्नानक्रीडाजनितजडभावैरवयवैः
कदाचिन्मुञ्चेयं मदनशिखिपीडापरिभवम् ॥
 
[commentary]
 
भूतः । अद्रिराजः कीदृक् । बालातपेन रक्तानि सानूनि प्रस्थानि यस्य सः । तथा निर्झरस्योद्गारेणोद्गमेन सहितः ॥ पिनष्टीति ॥ व्याख्यातं प्राक् ॥ पौर्वापर्येणेति ॥ तथाच चमत्कारप्रयोजकपौर्वापर्यघटकत्वेन भेदानवभासात्संसृष्टिवैलक्षण्यमिति भावः । दर्शादिवद्दर्शपौर्णमासादिवत् । अयंच भिन्नकालीनयोरपि समप्राधान्ये दृष्टान्तः । फलं तत्र स्वर्गः । प्रकृते तु चमत्कृतिविशेषः ॥
 
शशिनमिति ॥ अत्र अजस्येन्दुमत्या स्वयंवरे समगुणयोरजेन्दुमत्योर्योगेन प्रीतिर्येषां ते पौरा नागरिका नृपाणामन्येषां श्रवणयोः कटु पीडाकरमिति पूर्वार्धरूपमेकमेव वाक्यं विवव्रुरुच्चारयामासुरित्यन्वयः । तेन सर्वनाम्ना सा इन्दुमती बिम्बभूतो धर्मः । अजकर्मकं वरणम् । तत्र तस्मिन्पक्षे ॥ विलीयेति ॥ अग्निसंयोगेन घृतादिवत्केनापि हेतुना विलीनतां प्राप्येत्यर्थः । विकचं विकसितम् ।