This page has been fully proofread once and needs a second look.

संदेहसंकरालंकारः १२२ ] अलंकारचन्द्रिकासहितः । १८३
 
' पिनष्टीव तरङ्गायैः समुद्रः फेनचन्दनम् ।

तदादाय कैरेरिन्दुर्लिम्पतीव दिगङ्गनाः ॥'

 
इत्यत्रोत्प्रेक्षयोः कालभेदेऽपि समप्राधान्यम् । अन्योन्यनिरपेक्षवाक्यद्वयो-
पात्तत्वात् । तदादायेति फेनचन्दनरूपकमात्रोपजीवनेन पूर्वोत्प्रेक्षानपेक्ष-
णात् । नचैवं लिम्पतीव तमोऽङ्गानीतिवदुत्प्रेक्षाद्वयस्य संसृष्टिरेचेयमिति वा
च्यम् । लौकिक सिद्धपेषण लेपनपौर्वापर्यच्छायानुकारिणोत्प्रेक्षाद्वयपौर्वापर्येण
चारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात् । तस्माद्दर्शादिव दे कफलसाधनतया
समप्रधान मिदमुत्प्रेक्षाद्वयम् । एवं समप्रधानसंकरोऽपि व्याख्यातः ॥
 

 
--------------
 
संदेहसंकरालंकारः १२२
 

 
संदेहसंकरो यथा --
 
शशिनमुपगतेयं कौमुदी मेघमुक्तं

जलनिधिमनुरूपं जह्रुनुकन्यावतीर्णा ।

इति समगुणयोगप्रीतयस्तत्र पौरा:

श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥
 
संदेहसंकरो यथा-

 
अत्र इयमिति सर्वनाम्ना यद्यजं वृतवतीन्दुमती विशिष्टरूपेण निर्दिश्यते
तदा बिम्बप्रतिबिम्बभावापन्नधर्मविशिष्टयोः सदृशयोरैक्यारोपरूपा निदर्शना ।
यदि तेन सा स्वरूपेणैव निर्दिश्यते, बिम्बभूतो धर्मस्तु पूर्वप्रस्तावात्समगुण-
योगप्रीतय इति पौरविशेषणाञ्चावगम्यते, तत्र प्रस्तुते धर्मिणि तद्वृत्तान्तप्रति-
बिम्बभूताप्रस्तुतवृत्तान्तारोपरूपं ललितमित्यनध्यवसायात्संदेहः ॥

 
विलीयेन्दुः साक्षादमृतरसवापी यदि भवे-

त्
कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् ।

ततः स्नानक्रीडाजनितजडभावैरवयवैः
 

कदाचिन्मुञ्चेयं मदनशिखिपीडापरिभवम् ॥
 

 
[commentary]
 
भूतः । अद्विरिराजः कीदृक् । बालातपेन रक्तानि सानूनि प्रस्थानि यस्य सः । तथा
निर्झरस्योद्गारेणोद्गमेन सहितः ॥ पिनष्टीति ॥ व्याख्यातं प्राक् ॥ पौर्वापर्ये-
णेति ॥ तथाच चमत्कारप्रयोजक पौर्वापर्यघटकत्वेन भेदानवभासात्संसृष्टिवैलक्ष-
ण्यमिति भावः । दर्शादिवद्दर्शपौर्णमासादिवत् । अयंच भिन्नकालीनयोरपि सम
प्राधान्ये दृष्टान्तः । फलं तत्र स्वर्गः । प्रकृते तु चमत्कृतिविशेषः ॥
 

 
शशिनमिति ॥ अत्र अजस्येन्दुमत्या स्वयंवरे समगुणयोरजेन्दुमत्योर्योगेन
प्रीतिर्येषां ते पौरा नागरिका नृपाणामन्येषां श्रवणयोः कटु पीडाकरमिति पूर्वार्ध-
रूपमेकमेव वाक्यं विवव्रुरुच्चारयामासुरित्यन्वयः । तेन सर्वनाम्ना सा इन्दुमती
बिम्बभूतो धर्मः । अजकर्मकं वरणम् । तत्र तस्मिन्पक्षे ॥ विलीयेति ॥ अ-
ग्निसंयोगेन घृतादिवत्केनापि हेतुना विलीनतां प्राप्येत्यर्थः । विकचं विकसितम् ।