This page has not been fully proofread.

उपमालंकारः १ ] अलंकारचन्द्रिकासहितः ।
 
प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते ॥ ५ ॥
उपमालंकारः १
 
उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ॥ ६ ॥
 

 
ख्यग्रन्थे । त एवेत्यनन्तरं लिख्यन्त इति शेषः । स्थितानामपि केषांचिदलेखना-
त्प्राय इत्युक्तम् । यथानन्तरश्लोकस्योत्तरार्धम् । तत्रैवं दृश्यते 'हृदये खेलतोरु-
चैस्तन्वद्गीस्तनयोरिव' इति । स्वयं त्वन्यदेव विरचितमिति । एवंच तदीयत्वेन
कथनादाशङ्कानिरासः ॥ ५ ॥
 
-
 

 
-
 
संप्रत्यर्थालंकारेषु निरूपणीयेषु बहलालंकारघटकतया सुप्रसिद्धतया च प्रथम-
मुपमालंकारं लक्षयति - उपमेति । अयं च लक्ष्यनिर्देशः । शेषं लक्षणम् ।
सादृश्यलक्ष्मीश्चमत्कृतिजनकता । तद्विशिष्टसादृश्य मिति यावत् । धर्मधर्मिणोरमे-
दोपचारालक्षणं व्याचष्टे – यत्रेति । यत्र काव्ये वृत्तित्वं सप्तम्यर्थः । तच्च शक्ति-
लक्षणान्यतरसहकारेण बोधकत्वसंबन्धेन । उपमानमधिकगुणं चन्द्रादि, उपमेयं
चर्ण्यमानं कामिनीवदनादि, सहृदयः काव्यभावनापरिपक्कबुद्धिः, व्यङ्ग्यस्य मर्यादा
प्रतीतिनियमरूपा यया सा व्यञ्जनेत्यर्थः । अत्र चोपमानोपमेययोरिति स्वरूपक-
थनं नतु लक्षणान्तर्गतं व्यावर्तनीयाभावादात्माश्रयापादकत्वाच्च । उपमानत्वो-
पमेयत्वयोरुपमाघटितत्वात् । एतच्चाग्रे व्यक्तीभविष्यति । इत्थं चालंकारत्वे सति
सादृश्यमुपमालंकारलक्षणं बोध्यम् । एवमग्रेऽप्यधिकारप्राप्तमलंकारत्व विशेषणं
बोध्यम् ॥ हंसीत्यादि । अत्र तावदिवार्थे सादृश्ये निरूपितत्वसंसर्गेण हंस्या-
देरन्वयः । सादृश्यस्य प्रयोजकत्वसंसर्गेण स्वर्गङ्गावगाहनाश्रयत्वरूपे साधारणधर्मे
तस्य च स्वरूपसंबन्धेन कीर्तौ सादृश्यस्य निपातार्थतया नामार्थ प्रति साक्षात्संब-
न्धेन विशेष्यत्वे विशेषणत्वे च बाधकाभावात् । तथाच हंसी निरूपितसादृश्यप्रयो-
जकस्वर्गङ्गाकर्मकावगाहनाश्रयत्ववती कीर्तिरिति बोधः । नचैवं स्वर्गङ्गावगाहन-
मिवशब्दश्चेत्याद्यग्रिमग्रन्थे धात्वर्थस्य समानधर्मत्वोक्तिर्विरुद्धेति वाच्यम् । तदा
श्रयत्वस्य समानधर्मत्वे तस्य तथात्वस्यौचित्यायातत्वेन विरोधाभावात् । तथा
सति तत्रैव कुतो न सादृश्यान्वय इति चेन्न । धात्वर्थनिष्ठविशेष्यतानिरूपितप्रका-
रतासंसर्गेण शाब्दबोधे विशेष्यतया विभक्त्यर्थोपस्थितेर्हेतुत्वात् । नच निपा-
तार्थभिन्नवृत्तित्वेन प्रकारता विशेषणीयेति वाच्यम् । घटो न पश्यतीत्यादौ घटाद्य-
न्विताभावस्य कर्मतासंसर्गेण दर्शनेऽन्वयापत्तेः । यदि तु धात्वर्थेऽपि तात्पर्यव-
शात्सादृश्यान्वयोऽनुभवसिद्धस्तदा धात्वर्थनिष्ठविशेष्यता
निरूपित प्रकारतासंबन्धे-
नान्वयबुद्धिं प्रति तज्जन्योपस्थितेः प्रतिबन्धकत्वमात्रं परिकल्प्य घटो न पश्यती-
त्यादौ पूर्वोक्तान्वयबोधो निराकरणीय इति दिक् । एवमरविन्दमिव सुन्दरवदन-
मित्यादावरविन्दादिनिरूपितसादृश्यस्य प्रयोजकतासंसर्गेण सुन्दरपदार्थैकदेशेऽपि
सुन्दरत्वेऽनुभवबलादन्वय स्तद्विशिष्टस्य चाभेदेन मुखादौ । इत्थं चारविन्द निरू-
-