2023-02-17 12:59:11 by ambuda-bot
This page has not been fully proofread.
१८२
कुवलयानन्दः । [समप्राधान्य संकरः १२१
कत्वाच्च । तथापि वाक्योक्तोपमायामिवकारस्य मरीचिभिरिवेत्यन्वयान्तरम-
भ्युपगम्यान्वयभेदलब्धप्रकृताप्रकृतयोरे कै कविषयस्यार्थद्वयस्य समासोक्तोपमा-
यां सरोजसदृशं लोचन मिति समासान्तरमभ्युपगम्य समासभेदलब्धार्थद्वय-
स्य चाभेदाध्यवसायेन साधारण्यं संपाद्य तयोरुत्प्रेक्षासमासोक्त्योरङ्गता निर्वा-
ह्या ॥ यद्वा इह प्रकृतकोटिगतानां मरीचितिमिरसरोजानामप्रकृतकोटिगतानां
चाङ्गुलीकेशसंचयलोचनानां च तनुदीर्वावरणत्वनीलनी रन्ध्रत्वकान्तिमत्त्वादि-
ना सदृशानां प्रातिस्विकरूपेण भेदवदनुगतसादृश्यप्रयोजकरूपेणाभेदोऽप्यस्ति
स चात्र विवक्षित एव । भेदाभेदोभयप्रधानोपमेत्यालंकारिक
सिद्धान्तात् । तत्र
च प्रयोजकांशनिष्कर्षन्यायेनाभेदगर्भतांशोपजीवनेन साधारण्यं संपाद्य प्रधा
नभूतोत्प्रेक्षा समासोक्त्यङ्गता निर्वाह्या । नहि प्रकाशशीतापनयनशक्तिमतः
सौरतेजसः शीतापनयनशक्तिमात्रेण शीतालूपयोगिता न दृष्टा ॥
-
-
एवमनभ्युपगमे च–
'पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्द्वार इवाद्विराजः ॥'
इत्याधुपमापि न निर्वहेत् । न ह्यत्राद्विराजपाण्ड्ययोरुपमानोपमेययोरनु-
गतः साधारणधर्मो निर्दिष्टः । एकत्र बालातप निर्झरावन्यत्र हरिचन्दनहारा-
विति धर्मभेदात् । तस्मात्तत्रातपहरिचन्दनयोर्निर्झरहारयोश्च सदृशयोरभेदां-
शोपजीवनमेव गतिः ।
-
शङ्कते – यद्यपीति ॥ मरीचिभिरिवेति ॥ मरीचिभिरिवाङ्गुलीभिस्तिमिरमिव
केशसंचय मित्येवंरूप मित्यर्थः । एकैकविषयस्यार्थद्वयस्या भेदाध्यवसानेनेयन्वयः ।
तयोर्वाक्यसमासोक्तोपमयोः । आवश्यकाभेदाध्यवसायेनोपपत्तौ कृतमन्वयान्त-
रसमासान्तरकल्पनागौरवेणेत्याशयेनाह – यद्वेति ॥ तनुदीर्घेत्यादौ पूर्वनिपात-
नियमानुरोधेन यथासंख्यक्रमपरित्यागः । तथा चाङ्गुलिमरीच्यो स्तनुत्वनी रन्ध्रत्वा-
भ्यां तिमिर केश संचययोरावरणरूपत्वनीलत्वाभ्यां सरोजलोचनयोर्दीर्घत्वकान्तिम-
त्वाभ्यां च सादृश्यं बोध्यम् । प्रातिस्विकरूपेण अङ्गुलिवमरीचित्वादिना ॥ अनु-
गतेति ॥ अनुगतं यत्सादृश्यप्रयोजकं रूपं तनुत्वादिकं तेनेत्यर्थः । एतच्च साह-
श्यमतिरिक्तमित्यभिप्रायेण ॥ सिद्धान्तादिति ॥ तदुक्तं 'साधर्म्य त्रिविधं
मेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चे 'त्युपक्रम्य विद्यानाथेन 'उपमानन्वयो-
पुमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलत्व' मिति । ननु भेदाभेदरूपांश-
द्वयोपेताया उपमाया भेदांशस्यानुपयोगात्कथं तस्या उत्प्रेक्षायुपयोगित्वमित्याश-
का परिहरति — नहीति ॥ प्रकाशश्च शीतापनयनं चेति द्वन्द्वः । शीतालुः शी-
तार्तः । 'शीतोष्णतृप्रेभ्यस्तदसहने' इति वा आलुः । उक्तसिद्धान्तस्य नियुक्तिकत्वे-
नाश्रद्धेयत्वमाशङ्कमानं प्रत्याह-एवमिति ॥ पाण्ड्योऽयमिति ॥ पाण्ड्य-
नामायं नृपः अद्विराज इवाभाति । कथंभूतः । अंसयोरर्पितो लम्बो हारो येन
सः । तथा हरिचन्दनेन रक्तचन्दनेन कॢप्तः कृतोऽङ्गरागोऽनुलेपनं येन तथा-