This page has been fully proofread twice.

कत्वाच्च । तथापि वाक्योक्तोपमायामिवकारस्य मरीचिभिरिवेत्यन्वयान्तरमभ्युपगम्यान्वयभेदलब्धप्रकृताप्रकृतयोरेकैकविषयस्यार्थद्वयस्य समासोक्तोपमायां सरोजसदृशं लोचनमिति समासान्तरमभ्युपगम्य समासभेदलब्धार्थद्वयस्य चाभेदाध्यवसायेन साधारण्यं संपाद्य तयोरुत्प्रेक्षासमासोक्त्योरङ्गता निर्वाह्या ॥ यद्वा इह प्रकृतकोटिगतानां मरीचितिमिरसरोजानामप्रकृतकोटिगतानां चाङ्गुलीकेशसंचयलोचनानां च तनुदीर्घावरणत्वनीलनीरन्ध्रत्वकान्तिमत्त्वादिना सदृशानां प्रातिस्विकरूपेण भेदवदनुगतसादृश्यप्रयोजकरूपेणाभेदोऽप्यस्ति स चात्र विवक्षित एव । भेदाभेदोभयप्रधानोपमेत्यालंकारिकसिद्धान्तात् । तत्र च प्रयोजकांशनिष्कर्षन्यायेनाभेदगर्भतांशोपजीवनेन साधारण्यं संपाद्य प्रधानभूतोत्प्रेक्षा समासोक्त्यङ्गता निर्वाह्या । नहि प्रकाशशीतापनयनशक्तिमतः सौरतेजसः शीतापनयनशक्तिमात्रेण शीतालूपयोगिता न दृष्टा ॥
 
एवमनभ्युपगमे च --
 
'पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥'
 
इत्याद्युपमापि न निर्वहेत् । न ह्यत्राद्रिराजपाण्ड्ययोरुपमानोपमेययोरनुगतः साधारणधर्मो निर्दिष्टः । एकत्र बालातपनिर्झरावन्यत्र हरिचन्दनहाराविति धर्मभेदात् । तस्मात्तत्रातपहरिचन्दनयोर्निर्झरहारयोश्च सदृशयोरभेदांशोपजीवनमेव गतिः ।
 
[commentary]
 
शङ्कते – यद्यपीति ॥ मरीचिभिरिवेति ॥ मरीचिभिरिवाङ्गुलीभिस्तिमिरमिव केशसंचयमित्येवंरूपमित्यर्थः । एकैकविषयस्यार्थद्वयस्याभेदाध्यवसानेनेत्यन्वयः ।
तयोर्वाक्यसमासोक्तोपमयोः । आवश्यकाभेदाध्यवसायेनोपपत्तौ कृतमन्वयान्तरसमासान्तरकल्पनागौरवेणेत्याशयेनाह -- यद्वेति ॥ तनुदीर्घेत्यादौ पूर्वनिपातनियमानुरोधेन यथासंख्यक्रमपरित्यागः । तथा चाङ्गुलिमरीच्योस्तनुत्वनीरन्ध्रत्वाभ्यां तिमिरकेशसंचययोरावरणरूपत्वनीलत्वाभ्यां सरोजलोचनयोर्दीर्घत्वकान्तिमत्वाभ्यां च सादृश्यं बोध्यम् । प्रातिस्विकरूपेण अङ्गुलित्वमरीचित्वादिना ॥ अनुगतेति ॥ अनुगतं यत्सादृश्यप्रयोजकं रूपं तनुत्वादिकं तेनेत्यर्थः । एतच्च सादृश्यमतिरिक्तमित्यभिप्रायेण ॥ सिद्धान्तादिति ॥ तदुक्तं 'साधर्म्यं त्रिविधं भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चे'त्युपक्रम्य विद्यानाथेन 'उपमानन्वयोपुमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलत्व'मिति । ननु भेदाभेदरूपांशद्वयोपेताया उपमाया भेदांशस्यानुपयोगात्कथं तस्या उत्प्रेक्षाद्युपयोगित्वमित्याशङ्क्य परिहरति -- नहीति ॥ प्रकाशश्च शीतापनयनं चेति द्वन्द्वः । शीतालुः शीतार्तः । 'शीतोष्णतृप्रेभ्यस्तदसहने' इति वा आलुः । उक्तसिद्धान्तस्य नियुक्तिकत्वेनाश्रद्धेयत्वमाशङ्कमानं प्रत्याह -- एवमिति ॥ पाण्ड्योऽयमिति ॥ पाण्ड्यनामायं नृपः अद्रिराज इवाभाति । कथंभूतः । अंसयोरर्पितो लम्बो हारो येन सः । तथा हरिचन्दनेन रक्तचन्दनेन कॢप्तः कृतोऽङ्गरागोऽनुलेपनं येन तथा-