2023-04-28 08:48:18 by Bharadwajraki
This page has been fully proofread twice.
समप्राधान्यसंकरालंकारः १२९
समप्राधान्यसंकरो यथा --
अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा ।
स्फुरितमध्यगतारुणनायका मरकतैकलतेव नभः श्रियः ॥
अत्र पयोधरारादिशब्द श्लेषमूलातिशयोक्त्याङ्गभूतयोत्थाप्यमानैव सवितृतुरगावल्यां मरकतैकावलीतादात्म्योत्प्रेक्षा । नभोलक्ष्म्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिगर्भैवोत्थाप्यते । पयोधरश्लेषस्योभयोपकारकत्वात् तत उत्प्रेक्षासमासोक्त्योरेकः कालः परस्परापेक्षया चारुत्वसमुन्मेषश्चोभयोस्तुल्य इति विनिगमनाविरहात्समप्राधान्यम् । यथावा --
अङ्गुलीभिरिव केशसंचयं संनिकृष्य तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥
अत्राङ्गुलीभिरिति वाक्योक्तोपमया तत्प्रायपाठान्मुख्यकुड्मलीकरण लिङ्गानुगुण्याच्चोपमितसमासाश्रयणेन लब्धया सरोजलोचनमिति समासोक्तोपमयाङ्गभूतयोत्थाप्यमानैव शशिकर्तृकनिशामुखचुम्बनोत्प्रेक्षा निशाशशिनोर्दाम्पत्यव्यवहारसमारोपरूपसमासोक्तिगर्भैवोत्थाप्यते । उपमयोरुभयत्रोत्थापकत्वाविशेषात्समासोक्तिगर्भतां विना चुम्बनोत्प्रेक्षाया निरालम्बनत्वाच्च । ततश्चात्राप्युत्प्रेक्षासमासोक्त्योरेककालयोः समप्राधान्यम् ॥ यद्यप्यत्रोपमाभ्यां शशिनिशागतावेव धर्मौ समर्थ्यते नतु शशिनायकयोः निशानायकयोश्च साधारणधर्मौ । साधारणधर्मसमर्पणं चोत्प्रेक्षासमासोक्त्योरपेक्षितम् । उत्प्रेक्षायाः प्रकृताप्रकृतसाधारणगुणक्रियानिमित्तसापेक्षत्वात्समासोक्तेर्विशेषणसाम्यमूल-
[commentary]
अवत्विति ॥ सवितुः सूर्यस्य तुरगावली अश्वपङ्क्तिर्नोऽस्मानवतु । केव । नभःश्रियो गगनलक्ष्म्याः मरकतमणीनामेकलता एकावलीवेत्युत्प्रेक्षा । सूर्यतुरङ्गाणां हरितवर्णत्वात् । कथंभूता । सम्यगतिलङ्घितास्तुङ्गा उच्चाः पयोधरा मेघा यया । एकावलीपक्षे पयोधरौ स्तनौ । तथा स्फुरितो दीप्तिमान् मध्यगतोऽरुणरूपो नायको नेता सारथिर्यस्याः । पक्षे अरुण आरक्तो नायको हारमध्यमणिः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । अतिशयोक्त्या मेघानां स्तनत्वेनाध्यवसानरूपया । गर्भैवेत्यनेन तिलतण्डुलन्यायेन स्फुटावगम्यमानभेदायाः संसृष्टेः सकाशाद्वैलक्षण्यं दर्शितम् ॥ एवमत्रेति ॥ एकस्य चमत्कृतिजनने परापेक्षत्वादङ्गाङ्गिभावमाशङ्क्याह -- परस्परेति ॥ अङ्गुलीभिरिति ॥
शशी अङ्गुलीभिरिव मरीचिभिः केशसंचयमिव तिमिरं संनिगृह्य कुड्मलीकृतसरोजलोचनं लोचनमिव सरोजं यत्र तादृशं रजनीमुखं चुम्बतीवेत्यन्वयः ॥ तत्प्रायेति ॥ उपमाबहुले संदर्भे पाठादित्यर्थः ॥ मुख्येति ॥ मुख्यार्थरूपं यत्कुड्मलीकरणरूपं लिङ्गं पुष्पासाधारणधर्मस्तस्यानुकूल्यादित्यर्थः । उत्थापकत्वाविशेषादङ्गत्वाविशेषात् ॥ चन्द्रस्य चुम्बनोत्प्रेक्षायां दाम्पत्यव्यवहारसमारोपात्मकसमासोक्तौ चापेक्षितस्य नायकसाधर्म्यस्योक्तोपमाभ्यामसमर्पणात्कथं तयोस्तदङ्गत्वमिति