This page has been fully proofread once and needs a second look.

समप्राधान्यसंकरः १२१] अरालंकारचन्द्रिकासहितः ।
 
१८१
 
समप्राधान्यसंकरालंकार:
रः १२९
 

 
समप्राधान्यसंकरो यथा -
-
 
अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा ।

स्फुरितमध्यगतारुणनायका मरकतैकलतेव नभः श्रियः ॥

 
अत्र पयोधरारादिशब्द श्लेषमूलातिशयोक्त्याङ्गभूतयोत्थाप्यमानैव सवितृतु-
रगावल्यां मरकतैकावलीतादात्म्योत्प्रेक्षा । नभोलक्ष्म्यां नायिकाव्यवहारसमा-
रोपरूपसमासोक्तिगर्भैवोत्थाप्यते । पयोधरश्लेषस्योभयोपकारकत्वात् तत
उत्प्रेक्षासमासोक्त्योरेकः कालः परस्परापेक्षया चारुत्वसमुन्मेषश्चोभयोस्तुल्य
इति विनिगमनाविरहात्समप्राधान्यम् । यथावा -

 
-
 
अङ्गुलीभिरिव केशसंचयं संनिकृष्य तिमिरं मरीचिभिः ।

कुङ्ड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥

 
अत्राङ्गुलीभिरिति वाक्योक्तोपमया तत्प्रायपाठान्मुख्य कुङ्ड्मलीकरण लिङ्गा-
नुगुण्याच्चोपमितसमासाश्रयणेन लब्धया सरोजलोचनमिति समासोक्तोपम-
याङ्गभूतयोत्थाप्यमानैव शशिकर्तृक निशामुखचुम्बनोत्प्रेक्षा निशाशशिनोर्दा-
म्पत्यव्यवहारसमारोपरूपसमासोक्तिगर्भैवोत्थाप्यते । उपमयोरुभयत्रोत्थापक-
त्वाविशेषात्समासोक्तिगर्भतां विना चुम्बनोत्प्रेक्षाया निरालम्बनत्वाच्च । तत-
श्वाचात्राप्युत्प्रेक्षासमासोक्त्योरेककालयोः समप्राधान्यम् ॥ यद्यप्यत्रोपमाभ्यां
शशिनिशागतावेव धर्मो समये॑मौ समर्थ्यते नतु शशिनायकयोः निशानायकयोश्च सा-
धारणधर्मोंमौ । साधारणधर्मसमर्पणं चोत्प्रेक्षासमासोक्त्योरपेक्षितम् । उत्प्रेक्षायाः
प्रकृताप्रकृतसाधारणगुणक्रिया निमित्तसापेक्षत्वात्समासोक्तेर्विशेषणसाम्यमूल-
——
 

 
[commentary]
 
अवत्विति ॥ सवितुः सूर्यस्य तुरगावली अश्वपकिङ्क्तिर्नोऽस्मानवतु । केव
नभःश्रियो गगनलक्ष्म्याः मरकतमणीनामेकलता एकावलीवेत्युत्प्रेक्षा । सूर्यतुर-
ङ्गाणां हरितवर्णत्वात् । कथंभूता । सम्यगतिलङ्घितास्तुङ्गा उच्चाः पयोधरा मेघा
यया । एकावलीपक्षे पयोधरौ स्तनौ । तथा स्फुरितो दीप्तिमान् मध्यगतोऽरुण-
रूपो नायको नेता सारथिर्यस्याः । पक्षे अरुण आरक्तो नायको नायको हारमध्यमणिः ।
'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । अतिशयोक्त्या मेघानां
स्तनत्वेनाध्यवसानरूपया । गर्भैवेत्यनेन तिलतण्डुलन्यायेन स्फुटावगम्यमानमे-
भेदायाः संसृष्टेः सकाशाद्वैलक्षण्यं दर्शितम् ॥ एवमत्रेति ॥ एकस्य चमत्कृतिज-
नने परापेक्षत्वादङ्गाङ्गिभावमाशयाङ्क्याह -- परस्परेति ॥ अङ्गुलीभिरिति ॥

शशी अङ्गुलीभिरिव मरीचिभिः केशसंचयमिव तिमिरं संनिगृह्य कुड्लीकृतसरो-
जलोचनं लोचनमिव सरोजं यत्र तादृशं रजनीमुखं चुम्बतीवेत्यन्वयः ॥ तत्प्रा-
येति ॥ उपमाबहुले संदर्भे पाठादित्यर्थः ॥ मुख्येति ॥ मुख्यार्थरूपं यत्कुड्मली-
करणरूपं लिङ्गं पुष्पासाधारणधर्मस्तस्यानुकूल्यादित्यर्थः । उत्थापकत्वाविशेषाद-
ङ्गत्वाविशेषात् ॥ चन्द्रस्य चुम्बनोत्प्रेक्षायां दाम्पत्यव्यवहार समारोपात्मकसमासो-
कौ
क्तौ चापेक्षितस्य नायकसाधर्म्यस्योक्तोपमाभ्यामसमर्पणात्कथं तयोस्तदङ्गत्वमिति
 
-