This page has been fully proofread twice.

अत्र शशाङ्कसिंहेनेति तमोगजानामिति च रूपकम् । यद्यप्यत्र शशाङ्क एव सिंहस्तमांस्येव गजा इति मयूरव्यंसकादिसमासाश्रयणेन रूपकवच्छशाङ्कः सिंह इव तमांसि गजा इवेत्युपमितसमासाश्रयणेनोपमापि वक्तुं शक्या तथापि लूनाकृतीनामिति विशेषणानुगुण्याद्रूपकसिद्धिः । तस्य हि विशेषणस्य प्रधानेन सहान्वयेन भाव्यं नतु गुणेन 'गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति न्यायादुपमितसमासाश्रयणे तस्य पूर्वपदार्थप्रधानत्वाच्छशाङ्कस्य तमसां च प्राधान्यं भवेत् । तत्र न विशेषेण मुख्यार्थान्वयस्वारस्यमस्ति । स्वरूपनाशरूपोपचरिताकृतिलवनकर्तृत्वकर्मत्वान्वयसंभवेऽपि मुख्यार्थान्वयस्वारस्यमेवादरणीयम् ।
 
स्वरूपनाशक्रोडीकरणप्रवृत्तया लक्षणामूलातिशयोक्त्या रूपकसिद्धिः । तच्च रूपकमुत्प्रेक्षाया अङ्गं तदुत्थापकत्वात् । रूपकाभावे हि छायालूनगात्रखण्डा इवावेपन्तेत्येतावदुक्तावुपमैव सिद्ध्येत् । वेपनादिसाधर्म्यान्न छायानां सद्यः कृत्तगात्रखण्डतादात्म्यसंभावनारूपोत्प्रेक्षा । ननु शशाङ्केन लूनाकृतीनां तमसां गात्रखण्डा इवावेपन्तेत्येतावदुक्तावपि सिद्ध्यत्युत्प्रेक्षा । तादात्म्यसंभावनोपयुक्तलूनाकृतित्वरूपाधिकविशेषणोपादानात् । सत्यम् । तथोक्तावाकृतिलवनादिधर्मरूपकार्यसमारोपनिर्मिता शशाङ्कतमसोर्हन्तृहन्तव्यचेतनवृत्तान्तसमारोपरूपा समासोक्तिरपेक्षणीया । एवमुक्तौ रूपकमिति विशेषः । एवमत्रातिशयोक्तिरूपकोत्प्रेक्षाणामङ्गाङ्गिभावेन संकरः ॥
 
---------------

 
[commentary]
 
गुणानां गुणभूतानां पदार्थानां परार्थत्वान्मुख्यप्रधानार्थत्वात्परस्परमसंबन्धः । कुतः । समत्वादप्रधानत्वसाम्यादिति । यथा भाष्यकारमते पावमानेष्टीनामाधानस्य चाहवनीयाद्यर्थत्वात्परस्परं नाङ्गाङ्गिभावसंबन्धः । यथा वार्तिककारमतेऽग्निसमिन्धनार्थानां मन्त्रविशेषरूपाणां निविदां सामिधेनीनां चेति संक्षेपः । एतदघिधिकरणपूर्वपक्षसिद्धान्तौ प्रकृतानुपयोगान्न दर्शितौ ॥ स्वरूपनाशेति ॥ स्वरूपनाशरूपमुपचरितं गौणं यदाकृतिलवनमित्यर्थः ॥
 
नन्वेवमपि तमोंशेऽस्य विशेषणस्यान्वयात्कथं रूपकसिद्धिरित्याशङ्क्याह -- स्वरूपेति ॥ क्रोडीकारेण निगरणेन ॥ लक्षणामूलेति ॥ साध्यवसानलक्षणामूलेत्यर्थः । तथाच तमोंशे उपचारेणान्वय इति भावः । नचैवं सत्युपमाङ्गीकारेऽपि किं बाधकमिति वाच्यम् । तदङ्गीकारे प्रधानान्वयेऽप्युपचाराश्रयणापत्तेः । तदपेक्षयाऽप्रधाने तमोंशे तदङ्गीकारेण रूपकस्यैवौचित्यादिति ॥ न छायानामिति ॥ सिद्ध्येदित्यनुवर्तते । उत्प्रेक्षा न सिद्ध्येदित्यन्वयः । इवशब्दस्य सादृश्ये प्रसिद्धतरत्वेनासति तात्पर्यग्राहके संभावनाबोधकत्वासंभवादिति भावः । रूपकं विनाप्युत्प्रेक्षायां तात्पर्यग्राहकमस्तीति शङ्कते -- नन्विति ॥ एवमुक्तौ तमोगजानामित्युक्तौ । तथाच साधकान्तरस्य साधकान्तरादूषकत्वाद्रूपकस्योत्प्रेक्षाङ्गत्वमविकृतमिति भावः ॥