This page has been fully proofread once and needs a second look.

१८०
 
कुवलयानन्दः । [अङ्गाङ्गिभाव संकरः १२०
 
अत्र शशाङ्क सिंहेनेति तमोगजानामिति च रूपकम् । यद्यप्यत्र शशाङ्क
एव सिंहस्तमांस्येव गजा इति मयूरव्यंसकादिसमासाश्रयणेन रूपकवच्छ-
शाङ्क:कः सिंह इव तमांसि गजा इवेत्युपमितसमासाश्रयणेनोपमापि वक्तुं श
क्या तथापि लूनाकृतीनामिति विशेषणानुगुण्याद्रूपकसिद्धिः । तस्य हि विशे-
णस्य प्रधानेन सहान्वयेन भाव्यं नतु गुणेन 'गुणानां च परार्थत्वादसंबन्धः
समत्वात्स्यात्' इति न्यायादुपमितसमासाश्रयणे तस्य पूर्वपदार्थप्रधानत्वा-
च्छशाङ्कस्य तमसां च प्राधान्यं भवेत् । तत्र न विशेषेण मुख्यार्थान्वयस्वार-
स्यमस्ति । स्वरूपनाशरूपोपचरिताकृतिलवन कर्तृत्वकर्मत्वान्वय संभवेऽपि मु-
ख्यार्थान्वयस्वारस्य मेवादरणीयम् ।
 

 
स्वरूपनाशक्रोडीकरणप्रवृत्तया लक्षणामूलातिशयोक्त्या रूपकसिद्धिः । तच्च
रूपकमुत्प्रेक्षाया अङ्गं तदुत्थापकत्वात् । रूपकाभावे हि छायालूनगात्रखण्डा
इवावेपन्तेत्येतावदुक्तावुपमैव सिद्ध्येत् । वेपनादिसाधर्म्यान्न छायानां सद्यः-
कृत्तगात्रखण्डतादात्म्य संभावनारूपोत्प्रेक्षा । ननु शशाङ्केन लूनाकृतीनां तम-
सां गात्रखण्डा इवाचेवेपन्तेत्येतावदुक्तावपि सिद्ध्यत्युत्प्रेक्षा । तादात्म्यसंभाव-
नोपयुक्तलूना कृतित्वरूपाधिक विशेषणोपादानात् । सत्यम् । तथोक्तावाकृति-
लव नादिधर्म रूप रूपकार्यसमारोपनिर्मिता शशाङ्कतमसोर्हन्तृहन्तव्यचेतनवृत्तान्त-
समारोपरूपा समासोक्तिरपेक्षणीया । एवमुक्तौ रूपकमिति विशेषः । एवम-
त्रातिशयोक्तिरूपकोत्प्रेक्षाणामङ्गाङ्गिभावेन संकरः ॥
 
-
 

 
[commentary]
 
गुणानां गुणभूतानां पदार्थानां परार्थत्वान्मुख्य प्रधानार्थत्वात्परस्परमसंबन्धः ।
कुतः । समत्वादप्रधानत्वसाम्यादिति । यथा भाष्यकारमते पावमानेष्टीनामाधा-
नस्य चाहवनीयाद्यर्थत्वात्परस्परं नाङ्गाङ्गिभावसंबन्धः । यथा वार्तिककारमतेऽग्नि-
समिन्धनार्थानां मन्त्र विशेषरूपाणां निविदां सामिधेनीनां चेति संक्षेपः । एतद -
घिकरणपूर्वपक्षसिद्धान्तौ प्रकृतानुपयोगान्न दर्शितौ ॥ स्वरूपनाशेति ॥ स्वरू-
पनाशरूपमुपचरितं गौणं यदाकृतिलवन मित्यर्थः ॥
 

 
नन्वेवमपि तमोंशेऽस्य विशेषणस्यान्वयात्कथं रूपक सिद्धिरित्याशङ्ख्क्याह – स्व-
- स्वरूपेति ॥ क्रोडीकारेण निगरणेन ॥ लक्षणामूलेति ॥ साध्यवसानलक्षणामूले-
त्यर्थः । तथाच तमोंशे उपचारेणान्वय इति भावः । नचैवं सत्युपमाङ्गीकारेऽपि
किं बाधकमिति वाच्यम् । तदङ्गीकारे प्रधानान्वयेऽप्युपचाराश्रयणापत्तेः । तद-
पेक्षयाऽप्रधाने तमोंशे तदङ्गीकारेण रूपकस्यैवौचित्यादिति ॥ न छायानामि-
ति ॥ सिद्ध्येदित्यनुवर्तते । उत्प्रेक्षा न सिद्ध्ये दित्यन्वयः । इवशब्दस्य सादृश्ये प्र-
सिद्धतरत्वेनासति तात्पर्यग्राहके संभावनाबोधकत्वासंभवादिति भावः । रूपकं
विनाप्युत्प्रेक्षायां तात्पर्य ग्राहक मस्तीति शङ्कते -- नन्विति ॥ एवमुक्तौ तमोग-
जानामित्युक्तौ । तथाच साधकान्तरस्य साधकान्तरादूषकत्वाद्रूपकस्योत्प्रेक्षाङ्गत्व-
मविकृतमिति भावः ॥