2023-04-28 07:27:32 by Bharadwajraki
This page has been fully proofread twice.
नीरक्षीरन्यायेनास्फुटभेदालंकारमेलने संकरः । स चाङ्गाङ्गिभावेन समप्राधान्येन संदेहेन एकवाचकानुप्रवेशेन चतुर्विधः । एवं नृसिंहाकाराः पञ्चालंकाराः ।
----------------
अलंकारसंसृष्टिः ११९
तत्रालंकारसंसृष्टिर्यथा --
कुसुमसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलोलकलोलदृशान्यया ॥
अत्र शब्दालंकारानुप्रासयमकयोः संसृष्टिः ।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥
अत्रोत्प्रेक्षयोरुपमायाश्चेत्यर्थालंकाराणां संसृष्टिः ।
आनन्द मन्थरपुरन्दरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य ।
पादाम्बुजं भवतु मे विजयाय मञ्जु-
मञ्जीरसिञ्जितमनोहरमम्बिकायाः ॥
अत्र शब्दार्थालंकारयोरनुप्रासोपमयोः संसृष्टिः ।
--------------
अङ्गाङ्गिभावसंकरालंकारः १२०
अङ्गाङ्गिभावसंकरो यथा --
तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम् ।
शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ॥
[commentary]
कुसुमेति ॥ माघे ऋतुवर्णने पद्यमिदम् । अन्यया कयापि वनितया चलितया कलस्वरो मेखलायाः काञ्च्याः कलकल: कोलाहलो विदधे । किंभूतया । कुसुमसौरभलोभेन परिभ्रमतां भ्रमराणां संभ्रमेण त्वराविशेषेण संभृता समृद्धा शोभा यस्यास्तथा अलका लोला यस्यां तादृशी दृग्यस्यास्तथाभूतयेति ॥ आनन्देति ॥ आनन्देन मन्थरं यथा स्यात्तथा । पुरन्दरेणेन्द्रेण मुक्तमर्पितं माल्यं यत्र तादृशं महिषासुरस्य मौलौ मस्तके हठेन निहितं मञ्जु मनोज्ञं मञ्जीरस्य नूपुरस्य सिञ्जितं रणितं यत्र तादृशमनोरममम्बिकायाः पादाम्बुजमम्बुजसदृशं चरणं नोऽस्माकं विजयाय भवत्वित्यन्वयः । अत्र पादाम्बुजमित्युपमितसमास एव नतु मयूरव्यंसकादिवत्पाद एवाम्बुजमिति । तथा सत्यम्बुजप्राधान्ये मञ्जीरसिञ्जितान्वयायोगादित्युपमैव न रूपकमिति ज्ञेयम् । इति संसृष्टिः ॥
तलेष्विति ॥ तदा मारुतकम्पितानां महीरुहाणां तलेषु छाया अवेपन्त कम्पमाना आसन् । तत्रोत्प्रेक्षते । शशाङ्करूपेण सिंहेन छिन्नाकृतीनां तमोलक्षणगजानां शरीरखण्डा इवेति । 'गुणानां च' इति तार्तीयाधिकरणसूत्रम् । अस्यार्थः ।

आनन्द