This page has been fully proofread once and needs a second look.

अङ्गाङ्गिभावसंकरः १२०] अलंकारचन्द्रिकासहितः ।
 
१७९
 
नीरक्षीरन्यायेनास्फुटभेदालंकारमेलने संकरः । स चाङ्गाङ्गिभावेन समप्रा-
धान्येन संदेहेन एक वाचकानुप्रवेशेन
 
चतुर्विधः । एवं नृसिंहाकाराः
 
पञ्चालंकाराः ।
 

 
----------------
 
अलंकारसंसृष्टिः ११९
 

 
तत्रालंकार संसृष्टिर्यथा-
--
 
कुसुम
 
सौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
 

चलितया विदधे कलमेखलाकलकलोलकलोलदृशान्यया ॥

 
अत्र शब्दालंकारानुप्रासयमकयोः संसृष्टिः ।
 

 
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।

असत्पुरुसेवेव दृष्टिर्निष्फलतां गता ॥

 
अत्रोत्प्रेक्षयोरुपमायाश्चेत्यर्थालंकाराणां संसृष्टिः ।

 
आनन्द मन्थरपुरन्दरमुक्तमाल्यं

मौलौ हटेठेन निहितं महिषासुरस्य ।

पादाम्बुजं भवतु मे विजयाय मञ्जु-

मञ्जीरसिञ्जितमनोहरमम्बिकायाः ॥

 
अत्र शब्दार्थालंकारयोरनुप्रासोपमयोः संसृष्टिः ।
 

 
--------------
 
अङ्गाङ्गिभावसंकरालंकारः १२०
 

 
अङ्गाङ्गिभावसंकरो यथा --
 
तलेष्ववेपन्त महीरुहाणां छायास्तदा मारुतकम्पितानाम् ।

शशाङ्कसिंहेन तमोगजानां लूनाकृतीनामिव गात्रखण्डाः ॥
 
अङ्गाङ्गिभावसंकरो यथा-
-
 

 
[commentary]
 
कुसुमेति ॥ माघे ऋतुवर्णने पद्यमिदम् । अन्यया कयापि वनितया चलि-
तया कलस्वरो मेखलायाः काञ्च्याः कलकल: कोलाहलो विदधे । किंभूतया ।
कुसुमसौरभलोभेन परिभ्रमतां भ्रमराणां संभ्रमेण त्वराविशेषेण संभृता समृद्धा
शोभा यस्यास्तथा अलका लोला यस्यां तादृशी दृग्यस्यास्तथाभूतयेति ॥ आन-
न्देति ॥ आनन्देन मन्थरं यथा स्यात्तथा । पुरन्दरेणेन्द्रेण मुक्तमर्पितं माल्यं
यत्र तादृशं महिषासुरस्य मौलौ मस्तके हठेन निहितं मञ्जु मनोज्ञं मञ्जीरस्य नू-
पुरस्य सिञ्जितं रणितं यत्र तादृशमनोरममम्बिकायाः पादाम्बुजमम्बुजसदृशं
चरणं नोऽस्माकं विजयाय भवत्वित्यन्वयः । अत्र पादाम्बुजमित्युपमितसमास
एव नतु मयूरव्यंसकादिवत्पाद एवाम्बुज मिति । तथा सत्यम्बुजप्राधान्ये मञ्जी-
रसिञ्जितान्वयायोगादित्युपमैव न रूपकमिति ज्ञेयम् । इति संसृष्टिः ॥
 

 
तलेष्विति ॥ तदा मारुतकम्पितानां महीरुहाणां तलेषु छाया अवेपन्त क
म्पमाना आसन् । तत्रोत्प्रेक्षते । शशाङ्करूपेण सिंहेन छिन्नाकृतीनां तमोलक्षण-
गजानां शरीरखण्डा इवेति । 'गुणानां च ' इति तार्तीयाधिकरणसूत्रम् । अस्यार्थः ।