This page has been fully proofread twice.

यथावा --
 
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां
जानन्ति ते किमपि तान्प्रति नैष यत्नः ।
उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥
 
यथावा --
 
भ्रातः पान्थ कुतो भवान्नगरतो वार्ता नवा वर्तते
बाढं ब्रूहि युवा पयोदसमये त्यक्त्वा प्रियां जीवति ।
सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता
विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न संभाव्यते ॥
 
अत्राद्योदाहरणे अभूतपूर्वं मम भावि किं वेति संभवप्रमाणसिद्धार्थो दर्शितः । द्वितीयोदाहरणे संभवोपपादकं कालानन्त्यादिकमपि दर्शितम् । तृतीयोदाहरणे तु संभवोऽपि कण्ठोक्त इति भेदः ॥
 
--------------
 
ऐतिह्यालंकारः १९८
 
यथा --
 
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥
 
अत्र लौकिकी गाथेयमित्यनिर्दिष्टप्रवक्तृकप्रवादपारंपर्यरूपता दर्शिता ॥
 
अथैतेषामलंकाराणां यथासंभवं क्वचिन्मेलने लौकिकालंकाराणां मेलन इव चारुत्वातिशयोपलम्भान्नरसिंहन्यायेन पृथगलंकारावस्थितौ तन्निर्णयः क्रियते । तत्र तिलतण्डुलन्यायेन स्फुटावगम्यभेदालंकारमेलने संसृष्टिः ।
 
[commentary]
 
वाख्यप्रमाणसिद्धस्य कथनम् ॥ ये नामेति ॥ भवभूतेरुक्तिः । नामेति कुत्सने । 'नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने' इत्यमरः । किमपीति काकुः । न किमपीत्यर्थः । एषः काव्यनिर्माणरूपः । मम कोऽपि समानधर्मा सदृशो य उत्पत्स्यते अस्ति वा तं प्रति यत्नः । हि यस्मान्निरवधिरयं कालः पृथ्वी च विपुलेति क्रमेण योज्यम् । अत्र कालो ह्ययमित्यादिना सोपपत्तिकं संभवाख्यप्रमाणमुपदर्शितम् ॥ भ्रातरिति ॥ पथिकं प्रति ग्रामस्थस्य प्रश्नः । कुत इत्यनन्तरमागत इति शेषः । नगरादित्युत्तरम् । वार्तेति पुनः पूर्वस्य प्रश्नः । बाढमित्युत्तरमङ्गीकारे । अस्तीत्यर्थः । ब्रूहीति पूर्वस्योक्तिः । युवेत्यादि पान्थवचनम् । सत्यं जीवतीति पुनः पूर्वस्य प्रश्नः । जीवतीत्यादि सर्वं पान्थवचनम् । इति संभवः ॥
 
अनिर्दिष्टप्रवक्तृकेति ॥ अनिर्दिष्टो विशेषतोऽनुक्तः प्रवक्ता यस्येत्यर्थः । एवं चैतदेवैतिह्यलक्षणमिति दर्शितम् ॥ इति प्रमाणालंकारप्रकरणम् ॥
 
यथासंभवमिति ॥ संसृष्टिसंकराभ्यां द्वयोस्तदधिकानां वेति यथासंभवमित्यर्थः ॥ स्फुटेति ॥ स्फुटमवगम्यमानो भेदो येषामिति विग्रहः । एकस्मिन्वाचकेऽनुप्रवेशोऽवस्थितिः । एतत्सर्वमुदाहरणे व्यक्तीभविष्यति ॥