This page has been fully proofread once and needs a second look.

१७८ ·
 
यथावा-
momet
 
यथावा-
कुवलयानन्दः । [ ऐतिह्यालंकारः १९८
 
--
 
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां

जानन्ति ते किमपि तान्प्रति नैष यतः ।
त्नः ।
उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा
 

कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥
 

 
यथा-
वा --
 
भ्रातः पान्थ कुतो भवान्नगरतो वार्ता नवा वर्तते
 

बाढं ब्रूहि युवा पयोदसमये त्यक्त्वा प्रियां जीवति ।

सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता
 

विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न संभाव्यते ॥

 
अत्राद्योदाहरणे अभूतपूर्वं मम भावि किं वेति संभवप्रमाणसिद्धार्थो दर्शि-
तः । द्वितीयोदाहरणे संभवोपपादकं कालानन्त्यादिकमपि दर्शितम् । तृती-
योदाहरणे तु संभवोऽपि कण्ठोक्त इति भेदः ॥
 

 
--------------
 
ऐतिह्यालंकारः १९८
 

 
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ।

एति जीवन्तमानन्दो नरं वर्षशतादपि ॥

 
अत्र लौकिकी गाथेयमित्यनिर्दिष्टप्रवक्तृकप्रवादपारंपर्यरूपता दर्शिता ॥
अथैतेषामलंकाराणां यथासंभवं क्वचिन्मेलने लौकिकालंकाराणां मेलन
इव चारुत्वातिशयोपलम्भान्नरसिंहन्यायेन पृथगलंकारावस्थितौ तन्निर्णयः
क्रियते । तत्र तिलतण्डुलन्यायेन स्फुटावगम्यभेदालंकारमेलने संसृष्टिः ।
 
-
 

 
[commentary]
 
वाख्यप्रमाणसिद्धस्य कथनम् ॥ ये नामेति ॥ भवभूतेरुक्तिः । नामेति कुत्सने ।
'नाम प्राकाश्यसंभाव्यकोक्रोधोपगमकुत्सने' इत्यमरः । किमपीति काकुः । न कि-
मपीत्यर्थः । एषः काव्यनिर्माणरूपः । मम कोऽपि समानधर्मा सदृशो य उत्प
त्स्यते अस्ति वा तं प्रति यत्नः । हि यस्मान्निरवधिरयं कालः पृथ्वी च विपुलेति
क्रमेण योज्यम् । अत्र कालो ह्ययमित्यादिना सोपपत्तिकं संभवाख्यप्रमाणमुपद-
र्शितम् ॥ भ्रातरिति ॥ पथिकं प्रति ग्रामस्थस्य प्रश्नः । कुत इत्यनन्तरमागत
इति शेषः । नगरादित्युत्तरम् । वार्तेति पुनः पूर्वस्य प्रश्नः । बाढमित्युत्तरमङ्गी-
कारे । अस्तीत्यर्थः । ब्रूहीति पूर्वस्योक्तिः । युवेत्यादि पान्थवचनम् । सत्यं जीव-
तीति पुनः पूर्वस्य प्रश्नः । जीवतीत्यादि सर्वं पान्थवचनम् । इति संभवः ॥
 

 
अनिर्दिष्टप्रवक्तृकेति ॥ अनिर्दिष्टो विशेषतोऽनुक्तः प्रवक्ता यस्येत्यर्थः ।
एवं चैतदेवेवैतिह्यलक्षणमिति दर्शितम् ॥ इति प्रमाणालंकारप्रकरणम् ॥
 

 
यथासंभवमिति ॥ संसृष्टिसंकराभ्यां द्वयोस्तदधिकानां वेति यथासंभव
मित्यर्थः ॥ स्फुटेति ॥ स्फुटमवगम्यमानो मेभेदो येषामिति विग्रहः । एकस्मि-
न्वाचकेऽनुप्रवेशोऽवस्थितिः । एतत्सर्वमुदाहरणे व्यक्तीभविष्यति ॥