2023-02-17 12:59:11 by ambuda-bot
This page has not been fully proofread.
संभवालंकारः ११७ ] अलंकारचन्द्रिकासहितः ।
अर्थापत्यलंकारः ११५
निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।
अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥
अर्थापत्तिर्यथा-
-
यथावा-
व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी ।
गङ्गौघनिर्भसिंतशम्भुकन्धरासुवर्णमर्णः कथमन्यथा स्यात् ॥
अनुपलब्धिर्यथा-
अनुपलब्ध्यलंकारः ११६
स्फुटमसदवलग्नं तन्वि निश्चिन्ते ते
तदनुपलभमानास्तर्कयन्तोऽपि लोकाः ।
कुचगिरिवरयुग्मं यद्विनाधारमास्ते
तदिह मकरकेतोरिन्द्रजालं प्रतीमः ॥
संभवो यथा -
संभवालंकारः १९७
अभूतपूर्व मम भावि किं वा सर्व सहे मे सहजं हि दुःखम् ।
किं तु त्वदमे शरणागतानां पराभवो नाथ न तेऽनुरूपः ॥
१७७
विषयत्वव्याख्यातुः स्मरस्येत्यर्थः । तच्चासिद्धत्वात्कल्पित मिति भावः । इति शब्दः ॥
निर्णेतुमिति ॥ अस्तीति निर्णेतुं शक्यमित्यन्वयः ॥ व्यक्तमिति ॥
हेतुस्तर्क: । यदि व्यक्तं प्रकटं बलीयान् तदा सा जाह्नवी जलधिं नापूरयत् ।
अन्यथा पूरणे सति अर्णः समुद्रस्य जलं गन्नौधैर्निर्भसितं तिरस्कृतं सच्छम्भु-
कण्ठसमानवर्ण नीलं कथं स्यादित्यन्वयः । इत्यर्थापत्तिः ॥
स्फुटमिति ॥ हे तन्वि, तर्कयन्तस्तर्कशीला अपि लोकास्तदवलग्नमनुपल-
भमाना अपश्यन्तस्तवावलग्नं मध्यमसदिति स्फुटमेव निश्चिन्वते । कुलपर्वतश्रे-
टयुग्मत्वेनाध्यवसितं स्तनद्वन्द्वमाधारं विना यदास्ते तत्त्विह मकरध्वजस्येन्द्रजालं
मायाचरितं प्रतीम इत्यन्वयः । इत्यनुपलब्धिः ॥
अभूतेति ॥ ईश्वरं प्रति भक्तस्योक्तिः । पूर्वमभूतमभूतपूर्व तादृशं मम किं
वा भावि । न किंचित् । सर्व शीतातपादि द्वन्द्वं सहे । हि यतो मम सहजमेव
दुःखमस्ति । किंतु हे नाथ, ते तव शरणागतानां भक्तानां त्वदने पराभवो नानु-
रूपो नोचित इत्यन्वयः । अथवा तव नानुरूप इत्यन्वयः । अत्र दुःखादे: संभ-
कुव० १७