This page has been fully proofread twice.

अर्थापत्यलंकारः ११५
 
अर्थापत्तिर्यथा --
 
निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।
अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥
 
यथावा --
 
व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी ।
गङ्गौघनिर्भर्त्सितशम्भुकन्धरासुवर्णमर्णः कथमन्यथा स्यात् ॥
 
---------------

 
अनुपलब्ध्यलंकारः ११६
 
अनुपलब्धिर्यथा --
 
स्फुटमसदवलग्नं तन्वि निश्चिन्वते ते
तदनुपलभमानास्तर्कयन्तोऽपि लोकाः ।
कुचगिरिवरयुग्मं यद्विनाधारमास्ते
तदिह मकरकेतोरिन्द्रजालं प्रतीमः ॥
 
--------------
 
संभवालंकारः १९७
 
संभवो यथा --
 
अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् ।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपः ॥
 
[commentary]
 
विषयत्वव्याख्यातुः स्मरस्येत्यर्थः । तच्चासिद्धत्वात्कल्पितमिति भावः । इति शब्दः ॥
 
निर्णेतुमिति ॥ अस्तीति निर्णेतुं शक्यमित्यन्वयः ॥ व्यक्तमिति ॥ हेतुस्तर्क:कः । यदि व्यक्तं प्रकटं बलीयान् तदा सा जाह्नवी जलधिं नापूरयत् । अन्यथा पूरणे सति अर्णः समुद्रस्य जलं गङ्गौघैर्निर्भर्त्सितं तिरस्कृतं सच्छम्भुकण्ठसमानवर्णं नीलं कथं स्यादित्यन्वयः । इत्यर्थापत्तिः ॥
 
स्फुटमिति ॥ हे तन्वि, तर्कयन्तस्तर्कशीला अपि लोकास्तदवलग्नमनुपलभमाना अपश्यन्तस्तवावलग्नं मध्यमसदिति स्फुटमेव निश्चिन्वते । कुलपर्वतश्रेष्ठयुग्मत्वेनाध्यवसितं स्तनद्वन्द्वमाधारं विना यदास्ते तत्त्विह मकरध्वजस्येन्द्रजालं मायाचरितं प्रतीम इत्यन्वयः । इत्यनुपलब्धिः ॥
 
अभूतेति ॥ ईश्वरं प्रति भक्तस्योक्तिः । पूर्वमभूतमभूतपूर्वं तादृशं मम किं वा भावि । न किंचित् । सर्वं शीतातपादि द्वन्द्वं सहे । हि यतो मम सहजमेव दुःखमस्ति । किंतु हे नाथ, ते तव शरणागतानां भक्तानां त्वदग्रे पराभवो नानुरूपो नोचित इत्यन्वयः । अथवा तव नानुरूप इत्यन्वयः । अत्र दुःखादे:देः संभ-
 
कुव० १७