This page has been fully proofread twice.

श्रुत्यलंकार: ११४
 
तत्र श्रुतिर्यथा --
 
त्वं हि नाम्नैव वरदो नाधत्से वरमुद्रिकाम् ।
नहि श्रुतिप्रसिद्धार्थे लिङ्गमाद्रियते बुधैः ॥
 
अत्र करिगिरीश्वरस्य वरद इत्यभिधानश्रुत्या सर्वाभिलषितदातृत्वं समर्थितम् । लिङ्गं यथा --
 
विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः ।
ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥
 
न्नत्र शिवस्य श्रुतिप्रसिद्धसर्वोपकारकपृथिव्याद्यष्टमूर्तिपरिग्रहलिङ्गेन तत्प्रवृत्तीनां लोकानुग्रहैकप्रयोजनत्वं समर्थितम् । लिङ्गस्य मूलभूतवेदानुमापकतया वैदिकशब्दप्रमाण एवान्तर्भावः । एवं लौकिकलिङ्गानामपि लौकिकशब्दोन्नायकतया लौकिकशब्दप्रमाण एवान्तर्भावः । अतः ।
 
लोलद्भ्रूलतया विपक्षदिगुपन्यासे विधूतं शिर-
स्तद्वृत्तान्तपरीक्षणे कृतनमस्कारो विलक्ष्यस्थितः ।
ईषत्ताम्रकपोलकान्तिनि मुखे दृष्ट्यानतः पादयो-
रुत्सृष्टो गुरुसंनिधावपि विधिर्द्वाभ्यां न कालोचितः ॥
 
इत्यादि चेष्टारूपं प्रमाणान्तरं नाशङ्कनीयम् । क्वचिच्छब्दप्रमाणकल्पनया चमत्कारो यथा --
 
किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः ।
मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधस्मरः ॥
 
अत्र म्रियमाणानां मनश्चन्द्रं प्रविशतीत्येतदर्थिकायाः श्रुतेर्नलमुखचन्द्रविषयत्वे कल्पिते तथा व्याख्यातृस्मरवाक्यं प्रमाणतयोपन्यस्तम् ।
 
[Commentary]
 
त्वं हीति ॥ वरमुद्रिकां वरमुद्रां नाधत्से न धास्यसि । श्रुतिर्वरदसंज्ञारूपा लिङ्गं गमकम् । पक्षे श्रुत्या तृतीयादिरूपया प्रकर्षेण शीघ्रं सिद्धेऽर्थे अङ्गाङ्गिभावे सति लिङ्गमर्थप्रकाशनसामर्थ्यरूपमाद्रियते । यथा 'ऐन्द्र्या गार्हपत्यमुपतिष्ठते' इति श्रुत्या गार्हपत्योपस्थाने विनियुक्तस्य मन्त्रस्येन्द्रप्रकाशनसामर्थ्यरूपेण लिङ्गेनेन्द्रोपस्थाने विनियोगो नाद्रियत इत्यर्थः । करिगिरीश्वरः हस्तिगिरीश्वरः ॥ विदितमिति ॥ इत्थंभूतः परार्थैकप्रवृत्तिकः । अत इत्यस्य चेष्टारूपं प्रमाणान्तरं नाशङ्कनीयमित्यग्रेतनेनान्वयः ॥ लोलदिति ॥ गुरूणां संनिधावपि द्वाभ्यां नायकाभ्यां समयोचितो विधिर्नोत्सृष्टः । यथा लोलद्भ्रूलतया नायिकया विपक्षस्य सपत्न्यादेर्दिश उपन्यासे तत्सकाशादागतोऽसीति सूचने कृते नायकेन नेति सूचनाय शिरो विधूतं संचालितम् । ततस्तद्वृत्तान्तपरीक्षणे नायिकया कृते सत्यकृतनमस्कारो विलक्ष्य एव स्थितः । तत ईषत्ताम्रा कपोलकान्तिर्यस्य तादृशे नायिकाया मुखे कोपातिशयाज्जाते सति तत्पादयोर्दृष्टिपातेनैवानतः प्रणत इति ॥ किमसुभिरिति ॥ व्याख्यातं प्राक् ॥ तथेति ॥ नलमुखचन्द्र-