2023-04-28 06:47:17 by Bharadwajraki
This page has been fully proofread twice.
अत्र शिवः परमेष्ठिनोऽपि कारणमित्यत्र श्रुतिरूपं शब्दप्रमाणमुपन्यस्तम् । एवं श्रुतिपुराणागमलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युदाहरणीयानि ॥
--------------
तत्र स्मृत्यलंकारः ११२
तत्र स्मृतिर्यथा --
बलात्कुरुत पापानि सन्तु तान्यकृतानि वः ।
सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् ॥
पूर्वं श्रुतिरभिमतार्थे प्रमाणत्वेनोपन्यस्ता । इह तु स्मृतिरनभिमतार्थे तद्दूषणपरेण प्रमाणतया नीतेति भेदः । आचारात्मतुष्टयोरपि मीमांसकोक्तधर्मप्रमाणयोर्वेदशब्दानुमापकतया शब्दप्रमाण एवान्तर्भावः । तत्राचारप्रमाणं यथा --
महाजनाचारपरम्परेदृशी स्वनाम नामाददते न साधवः ।
अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुचं विगायति ॥
---------------
आत्मतुष्टिप्रमाणालंकारः ११३
आत्मतुष्टिप्रमाणं यथा --
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः ॥
अत्र दुष्यन्तेनात्मतुष्ट्या शकुन्तलापरिग्रहस्य धर्म्यत्वं श्रुत्यनुमतमनुमीयते । एवं श्रुतिलिङ्गादिकमपि मीमांसोक्तं प्रमाणं संभवदिहोदाहर्तव्यम् ।
--------------
[commentary]
साधूक्तम् । यतो यमीशमात्मभुवो ब्रह्मणोऽपि कारणमामनन्ति वेदाः । स कथं लक्ष्यः प्रभव उत्पत्तिस्थानं यस्य तादृग्भविष्यतीत्यन्वयः । विवक्षतेति क्वचित्पाठः वक्तुमिच्छतेति तदर्थः ॥
बलादिति ॥ नास्तिकोक्तिरियम् । हे जनाः, पापानि बलात्कुरुत । तानि च पापानि वो युष्माकमकृतान्येव भवन्तु । यतो बलात्कारेण कृतान्सर्वानर्थान्मनुरकृतानब्रवीदित्यन्वयः । तद्दूषणपरेण सर्वाभिमतार्थदूषणपरेण । आत्मनस्तुष्टिः प्रीतिर्वैकल्पिके विषये 'गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम्' इत्यादौ प्रमाणमित्युक्तम् ॥ महाजनेति ॥ दमयन्तीं प्रति नलस्योक्तिः । नाम वितर्के । नाददते न गृह्णन्ति । आचारमुचमाचारत्यागिनं । विगायति निन्दति ॥
असंशयमिति ॥ क्षत्रेण क्षत्रियेण परिग्रहे क्षमा योग्या । यत आर्यं श्रेष्ठं मम मनः अस्यां शकुन्तलायामभिलाषशीलम् । पदेषु विषयेषु ॥