2023-02-17 12:59:10 by ambuda-bot
This page has not been fully proofread.
१७४
यथावा-
-
कुवलयानन्दः । [ शब्दप्रमाणालंकारः १११
विलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः ।
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥
सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते
चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति ।
वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः
क्कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥
उपमानालंकारः ११०
उपमानं यथा-
तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले ।
यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ॥
अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम् ।
शैलराजमिव धैर्यशालिनं वेझि वेङ्कटपतिं महीपतिम् ॥
पूर्वोदाहरणे उपमानभूतमतिदेशवाक्यं दर्शितम् । अत्रातिदेशवाक्यार्थ-
सादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शित मिति विशेषः ॥
शब्दप्रमाणालंकारः १११
शब्दप्रमाणं यथा-
विवृण्वता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥
।
एताश्चक्रीकृतचापं सदा पुरोधावदाज्ञाकरमदनकाः मर्मभेदिबाणपाताश्रयश्रूसंज्ञा-
स्थानकत्वादिति बोध्यः । एवं निलीयमानैरित्यत्रापि । अयं कालः सूर्यास्तमय-
वान् पक्षिनिलीयमानताद्याश्रयत्वादिति । रविरस्तगमनवान् तादृशकालसंबन्धि-
त्वादिति वा प्रयोगो ज्ञेयः ॥ सौमित्रे इति ॥ विरहातुरस्य रामस्य लक्ष्मणं
प्रत्युक्तिः । अत्राप्ययं चन्द्रः कुरङ्गधारित्वादिति प्रयोगः । इत्यनुमानम् ॥
तामिति ॥ तारकाणां न्यासः संनिवेशः शकटस्याकारं संस्थानमाश्रितस्तां
रोहिणीं विजानीहीत्यति देशवाक्यार्थज्ञान मिहोपमानम् । इयं शकटाकारनक्षत्रव्य-
क्तिः रोहिणीपदवाच्येत्युपमितिं प्रति करणत्वात् ॥ अत्रेति ॥ अत्र एषु राजसु
मध्ये मन्मथमिवातिसुन्दरं महीपतिं वेङ्कटपतिसंज्ञं वेझीत्याद्यन्वयः । दानवारि-
र्विष्णुः । शैलराजं हरं धैर्यशालिनं मदनशासकत्वात् ॥ प्रत्यक्षरूपमिति ॥ सा-
दृश्य विशिष्टपिण्ड प्रत्यक्षस्यापि फलायोगव्यवच्छिन्नत्वेन कारणत्वादिति भावः ।
फलेन उपमितिरूपेण । इत्युपमानम् ॥
विवृण्वतेति ॥ कुमारसंभवे बटुवेषं हरं प्रति पार्वत्या इयमुक्तिः । वरदोषं
प्रकाशयतापि स्खलितान्तःकरणेन त्वया ईशं महादेवं प्रति एकमलक्ष्यजन्मत्वं