This page has been fully proofread twice.

विलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः ।
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥
 
यथावा -
 
सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते
चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति ।
वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः
क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥
 
--------------
 
उपमानालंकारः ११०
 
उपमानं यथा --
 
तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले ।
यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ॥
 
अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम् ।
शैलराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिम् ॥
 
पूर्वोदाहरणे उपमानभूतमतिदेशवाक्यं दर्शितम् । अत्रातिदेशवाक्यार्थसादृश्यप्रत्यक्षरूपमुपमानं फलेन सह दर्शितमिति विशेषः ॥
 
--------------
 
शब्दप्रमाणालंकारः १११
 
शब्दप्रमाणं यथा --
 
विवृण्वता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥
 
[commentary]
 
एताश्चक्रीकृतचापं सदा पुरोधावदाज्ञाकरमदनकाः मर्मभेदिबाणपाताश्रयभ्रूसंज्ञास्थानकत्वादिति बोध्यः । एवं निलीयमानैरित्यत्रापि । अयं कालः सूर्यास्तमयवान् पक्षिनिलीयमानताद्याश्रयत्वादिति । रविरस्तगमनवान् तादृशकालसंबन्धित्वादिति वा प्रयोगो ज्ञेयः ॥ सौमित्रे इति ॥ विरहातुरस्य रामस्य लक्ष्मणं प्रत्युक्तिः । अत्राप्ययं चन्द्रः कुरङ्गधारित्वादिति प्रयोगः । इत्यनुमानम् ॥
 
तामिति ॥ तारकाणां न्यासः संनिवेशः शकटस्याकारं संस्थानमाश्रितस्तां रोहिणीं विजानीहीत्यति देशवाक्यार्थज्ञानमिहोपमानम् । इयं शकटाकारनक्षत्रव्यक्तिः रोहिणीपदवाच्येत्युपमितिं प्रति करणत्वात् ॥ अत्रेति ॥ अत्र एषु राजसु मध्ये मन्मथमिवातिसुन्दरं महीपतिं वेङ्कटपतिसंज्ञं वेद्मीत्याद्यन्वयः । दानवारिर्विष्णुः । शैलराजं हरं धैर्यशालिनं मदनशासकत्वात् ॥ प्रत्यक्षरूपमिति ॥ सादृश्यविशिष्टपिण्डप्रत्यक्षस्यापि फलायोगव्यवच्छिन्नत्वेन कारणत्वादिति भावः । फलेन उपमितिरूपेण । इत्युपमानम् ॥
 
विवृण्वतेति ॥ कुमारसंभवे बटुवेषं हरं प्रति पार्वत्या इयमुक्तिः । वरदोषं प्रकाशयतापि स्खलितान्तःकरणेन त्वया ईशं महादेवं प्रति एकमलक्ष्यजन्मत्वं