This page has not been fully proofread.

अनुमानालंकारः १०९ ] अलंकारचन्द्रिकासहितः ।
 
यथावा-
किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैर्बकसहवासिनां
पूर्वत्र प्रत्यक्षमात्रमत्र तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति
 
परोक्षैः ॥
भेदः ॥
 
अनुमानालंकारः १०९
 
अनुमानं यथा ।
यथा रन्ध्रव्योन्नश्चलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः ।
यथा विद्युज्वालोल्लसितपरिपिङ्गाश्च ककुभ-
स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥
 
-
 
यथावा-
यत्रैता लहरीचलाचलहशो व्यापारयन्ति भ्रुवौ
यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः ।
तच्चक्रीकृतचापपुङ्गितशरप्रेङ्खत्करः क्रोधनो
 
धावत्यग्रत एव शासनधरः सत्यं तदासां स्मरः ॥
पूर्व रूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमिति भेदः ।
शुद्धानुमानं यथा-
१७३
 
कथंभूते । संक्रान्तप्रियमुखप्रतिबिम्बे । भग्नकोमलाम्रपल्लववत्सुगन्धौ स्वादुनि
आस्वाद्ये प्रकृष्टनादयुक्त भ्रमरयुते शीतस्पर्शे चेति । अत्रेन्द्रियतृप्त्या तज्जन्यप्रत्य-
क्षमलंकारः ॥ किमिति ॥ आराद्दूरे । इति क्षणं संदिह्य कश्चिद्वकसहवासिनां
कमलानां परोक्षैरदृश्यैर्बिब्बोकै: 'मानात्प्रियकथालापे बिब्बोकोऽनादरक्रिया' इ-
त्युक्तलक्षणैर्हावविशेषैर्मुखमिति निश्चिकाय निर्णीतवान् । इति प्रत्यक्षम् ॥
 
-
 
यथेति ॥ यथाशब्दा अनुमानार्था: । 'यथाशब्दस्तु निर्दिष्टस्तुल्ययोगानुमा-
नयोः' इति विश्वकोशात् । तथाच चपलजलदरूपो धूमो व्योम्न आकाशस्य
रन्ध्रमवकाशं यस्मात्स्थगयति । यस्माच्च कीटमणयः खद्योताः स्फुलिङ्गानां रूपं द-
धति धारयन्ति । यस्माच्च विद्युद्रपाभिवलाभिरुल्लसिताः प्रकाशीभूताः परितः
पिङ्गवर्णाश्च ककुभो दिशस्तस्मात्पथिकरूपाणां तरूणां खण्डे समूहे स्मरलक्षणो
दवाग्मिलग्न इति मन्ये इत्यन्वयः । प्रयोगस्तु पथिकतरुखण्डं स्मरदावानलवत्
व्योमव्यापिजलद धूमवत्त्वादित्यादिर्बोध्यः ॥ यत्रैता इति ॥ लहरीवञ्चलाचला-
श्चञ्चला दृशो यासां ता एताः कामिन्यो यत्र जने भ्रूलतां व्यापारयन्ति प्रेरयन्ति
तत्रैव भ्रूसंज्ञाविषय एव यद्यस्मादमी मर्मस्पर्शिनो बाणा: संततं पतन्ति तत्तस्मा-
न्मण्डलीकृते चापे पुचिता योजितमुखा ये शरास्तेषु प्रेहश्चपलः करो यस्य ता-
दृशः क्रोधनः स्मरः शासनमाज्ञा तद्धारक आसाममतो धावतीति सत्यमित्यन्व-
यः ॥ अतिशयोक्तीति ॥ मार्गणत्वेन दृशामध्यवसानादिति भावः । प्रयोगस्तु
 
-