This page has been fully proofread twice.

यथावा --
 
किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चिद्बिब्बोकैर्बकसहवासिनां परोक्षैः ॥
 
पूर्वत्र प्रत्यक्षमात्रमत्र तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति भेदः ॥
 
----------------
 
अनुमानालंकारः १०९
 
अनुमानं यथा ।
 
यथा रन्ध्रव्योम्नश्चलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः ।
यथा विद्युज्वालोल्लसितपरिपिङ्गाश्च ककुभ-
स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥
 
यथावा --
 
यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवौ
यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः ।
तच्चक्रीकृतचापपुङ्खितशरप्रेङ्खत्करः क्रोधनो
धावत्यग्रत एव शासनधरः सत्यं तदासां स्मरः ॥
 
पूर्वं रूपकसंकीर्णमिदमतिशयोक्तिसंकीर्णमिति भेदः ।
 
शुद्धानुमानं यथा --
 
[commentary]
 
कथंभूते । संक्रान्तप्रियमुखप्रतिबिम्बे । भग्नकोमलाम्रपल्लववत्सुगन्धौ स्वादुनि आस्वाद्ये प्रकृष्टनादयुक्तभ्रमरयुते शीतस्पर्शे चेति । अत्रेन्द्रियतृप्त्या तज्जन्यप्रत्यक्षमलंकारः ॥ किमिति ॥ आराद्दूरे । इति क्षणं संदिह्य कश्चिद्बकसहवासिनां कमलानां परोक्षैरदृश्यैर्बिब्बोकैः 'मानात्प्रियकथालापे बिब्बोकोऽनादरक्रिया' इत्युक्तलक्षणैर्हावविशेषैर्मुखमिति निश्चिकाय निर्णीतवान् । इति प्रत्यक्षम् ॥
 
यथेति ॥ यथाशब्दा अनुमानार्था:थाः । 'यथाशब्दस्तु निर्दिष्टस्तुल्ययोगानुमानयोः' इति विश्वकोशात् । तथाच चपलजलदरूपो धूमो व्योम्न आकाशस्य रन्ध्रमवकाशं यस्मात्स्थगयति । यस्माच्च कीटमणयः खद्योताः स्फुलिङ्गानां रूपं दधति धारयन्ति । यस्माच्च विद्युद्रूपाभिर्ज्वालाभिरुल्लसिताः प्रकाशीभूताः परितः पिङ्गवर्णाश्च ककुभो दिशस्तस्मात्पथिकरूपाणां तरूणां खण्डे समूहे स्मरलक्षणो दवाग्निर्लग्न इति मन्ये इत्यन्वयः । प्रयोगस्तु पथिकतरुखण्डं स्मरदावानलवत्
व्योमव्यापिजलदधूमवत्त्वादित्यादिर्बोध्यः ॥ यत्रैता इति ॥ लहरीवच्चलाचलाश्चञ्चला दृशो यासां ता एताः कामिन्यो यत्र जने भ्रूलतां व्यापारयन्ति प्रेरयन्ति तत्रैव भ्रूसंज्ञाविषय एव यद्यस्मादमी मर्मस्पर्शिनो बाणा:णाः संततं पतन्ति तत्तस्मान्मण्डलीकृते चापे पुङ्खिता योजितमुखा ये शरास्तेषु प्रेङ्खश्चपलः करो यस्य तादृशः क्रोधनः स्मरः शासनमाज्ञा तद्धारक आसामग्रतो धावतीति सत्यमित्यन्वयः ॥ अतिशयोक्तीति ॥ मार्गणत्वेन दृशामध्यवसानादिति भावः । प्रयोगस्तु