2023-02-17 12:58:36 by ambuda-bot
This page has not been fully proofread.
२
कुवलयानन्दः ।
उद्घाट्य योगकलया हृदयाब्जकोशं
धन्यैश्विरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फुरस्य विरतं परिपूर्णरूप:
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ ३॥
॥
[ उपोद्धातः १
अलंकारेषु बालानामवगाहनसिद्धये ।
ललितः क्रियते तेषां लक्ष्यलक्षणसंग्रहः ॥ ४ ॥
येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः ।
स्यतीति सहृदयैराकलनीयम् । मातापितराविति रूपकाभ्यामुक्तोपमयोः संसृष्टिः
परस्परं चोपमयोः फलायितेत्येकवाचकानुप्रवेशलक्षण: संकर इति दिक् ॥ २ ॥
संप्रति प्रतिपिपादयिषितानामलंकाराणां व्युत्पत्तेः स्वतोऽपुरुषार्थतया फलत्वा
योगात्तस्या रसाखादौपयिकत्वेन फलत्वं प्रेक्षावतां प्रकृतग्रन्थप्रवृत्तये सूचयित
शृङ्गाररसाधिदैवतं श्रीकृष्णं प्रति रसाखादानन्दं प्रार्थयते – उद्घाट्येति ॥ स्
मुकुन्दो मे मह्यं शश्वद्भवं शाश्वतिकं भग्नावरणतया सदा प्रकाशमानं श्रेयो विग
लितवेद्यान्तरमानन्दं 'रसो वै सः' इति श्रुतेः रसपदाभिधेयं दिशतु । ददात्वि
त्यर्थः । यथाश्रुते मुक्तिप्रार्थनायाः प्रकृतेऽसंगत्यापत्तेः । स कः । यो धन्यैर्महा
महिमपुण्यशालिभिर्नारदादिमुनिभिर्योगकलया योगकौशलेन हृदयाब्जस्य उरसे
मध्यवर्तिनो हृदयपुण्डरीकस्य कोशं मुकुलमधोमुखतया विद्यमानमुद्धाट्य रेचक
प्राणायामेनोर्ध्वमुखं कृत्वा चिराद्वहुकालं यथारुचि यथेच्छं गृह्यमाणोऽपि रामकृ
ष्णाद्यभिमतमूर्तिध्यानगोचरीक्रियमाणोऽपि परितः पूर्ण रूपमस्य तथाभूतोऽपरि
च्छिन्नब्रह्मरूपोऽविरतं निरन्तरं मुक्तिदशायां प्रस्फुरति प्रकाशत इति विरोधालं
कारः । औपासनिकरूपस्य कल्पितत्वेन च तत्परिहारः । अथवा योगिभिरप्यचि
न्त्यस्वरूप इति माहात्म्यातिशयवर्णनम् । अत्र योगिगत भगवद्विषयकरतिभावस्य
कविगतं तं प्रत्यङ्गतया प्रेयोलंकारः ॥ ३ ॥ चिकीर्षितस्य ग्रन्थस्य प्रयोजनाभि
धेये प्रदर्शयति - अलंकारेष्विति ॥ एतच्चोभयान्वयि । अलंकारेष्वर्थालंकारे
षूपमादिषु विषये बालानामव्युत्पन्नानां तेष्ववगाहनस्य व्युत्पत्तेः सिद्धय इत्यर्थः
तेषां ये लक्ष्यलक्षणे तयोः संग्रह इति नित्यसापेक्षत्वात्समासः । लक्ष्यमुदाहरण
म् । अलंकारत्वं च रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विष
यितासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् । अनुप्रा
सादि विशिष्टशब्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्व
यः । शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकताया विषयितयावच्छेदकत्वेन तद्विशेष
णीभूतानुप्रासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात् । रसवदाद्यलंकारसंग्रहाय
व्यङ्ग्योपमादिवारणाय च मेदद्वयगर्भसत्यन्तोपादानम् ॥ ४ ॥ परकीयग्रन्थाप
हारशङ्कानिरासायाह – येषामिति ॥ येषामलंकाराणां चन्द्रालोके चन्द्रालोका
-
१ 'कौशल्येन'.