This page has been fully proofread twice.

उद्घाट्य योगकलया हृदयाब्जकोशं
धन्यैश्विरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फुरत्यविरतं परिपूर्णरूप:
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ ३॥
 
अलङ्कारेषु बालानामवगाहनसिद्धये ।
ललितः क्रियते तेषां लक्ष्यलक्षणसङ्ग्रहः ॥ ४ ॥
 
येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः ।
 
(commenatry)
 
स्यतीति सहृदयैराकलनीयम् । मातापितराविति रूपकाभ्यामुक्तोपमयोः संसृष्टिः परस्परं चोपमयोः फलायितेत्येकवाचकानुप्रवेशलक्षण: सङ्कर इति दिक् ॥ २ ॥ सम्प्रति प्रतिपिपादयिषितानामलङ्काराणां व्युत्पत्तेः स्वतोऽपुरुषार्थतया फलत्वायोगात्तस्या रसाखास्वादौपयिकत्वेन फलत्वं प्रेक्षावतां प्रकृतग्रन्थप्रवृत्तये सूचयितुं शृङ्गाररसाधिदैवतं श्रीकृष्णं प्रति रसास्वादानन्दं प्रार्थयते -- उद्घाट्येति ॥ स मुकुन्दो मे मह्यं शश्वद्भवं शाश्वतिकं भग्नावरणतया सदा प्रकाशमानं श्रेयो विगलितवेद्यान्तरमानन्दं 'रसो वै सः' इति श्रुतेः रसपदाभिधेयं दिशतु । ददात्वित्यर्थः । यथाश्रुते मुक्तिप्रार्थनायाः प्रकृतेऽसङ्गत्यापत्तेः । स कः । यो धन्यैर्महामहिमपुण्यशालिभिर्नारदादिमुनिभिर्योगकलया योगकौशलेन [^१] हृदयाब्जस्य उरसे मध्यवर्तिनो हृदयपुण्डरीकस्य कोशं मुकुलमधोमुखतया विद्यमानमुद्धाट्य रेचकप्राणायामेनोर्ध्वमुखं कृत्वा चिराद्हुकालं यथारुचि यथेच्छं गृह्यमाणोऽपि रामकृष्णाद्यभिमतमूर्तिध्यानगोचरीक्रियमाणोऽपि परितः पूर्णं रूपमस्य तथाभूतोऽपरिच्छिन्नब्रह्मरूपोऽविरतं निरन्तरं मुक्तिदशायां प्रस्फुरति प्रकाशत इति विरोधालङ्कारः । औपासनिकरूपस्य कल्पितत्वेन च तत्परिहारः । अथवा योगिभिरप्यचिन्त्यस्वरूप इति माहात्म्यातिशयवर्णनम् । अत्र योगिगतभगवद्विषयकरतिभावस्य कविगतं तं प्रत्यङ्गतया प्रेयोलङ्कारः ॥ ३ ॥ चिकीर्षितस्य ग्रन्थस्य प्रयोजनाभिधेये प्रदर्शयति -- अलङ्कारेष्विति ॥ एतच्चोभयान्वयि । अलङ्कारेष्वर्थालङ्कारेषूपमादिषु विषये बालानामव्युत्पन्नानां तेष्ववगाहनस्य व्युत्पत्तेः सिद्धय इत्यर्थः । तेषां ये लक्ष्यलक्षणे तयोः सङ्ग्रह इति नित्यसापेक्षत्वात्समासः । लक्ष्यमुदाहरणम् । अलङ्कारत्वं च रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयितासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् । अनुप्रासादि विशिष्टशब्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्वयः । शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकताया विषयितयावच्छेदकत्वेन तद्विशेषणीभूतानुप्रासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात् । रसवदाद्यलङ्कारसङ्ग्रहायव्यङ्ग्योपमादिवारणाय च मेभेदद्वयगर्भसत्यन्तोपादानम् ॥ ४ ॥ परकीयग्रन्थापहारशङ्कानिरासायाह -- येषामिति ॥ येषामलङ्काराणां चन्द्रालोके चन्द्रालोका
 
[^१] ’कौशल्येन’