2023-03-01 10:01:26 by Bharadwajraki
This page has been fully proofread once and needs a second look.
धन्यैश्विरादपि यथारुचि गृह्यमाणः ।
यः प्रस्फुरत्यविरतं परिपूर्णरूप:
श्रेयः स मे दिशतु शाश्वतिकं मुकुन्दः ॥ ३॥
अलङ्कारेषु बालानामवगाहनसिद्धये ।
ललितः क्रियते तेषां लक्ष्यलक्षणसङ्ग्रहः ॥ ४ ॥
येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः ।
(Commentry)
स्यतीति सहृदयैराकलनीयम् । मातापितराविति रूपकाभ्यामुक्तोपमयोः संसृष्टिः परस्परं चोपमयोः फलायितेत्येकवाचकानुप्रवेशलक्षण: सङ्कर इति दिक् ॥ २ ॥ सम्प्रति प्रतिपिपादयिषितानामलङ्काराणां व्युत्पत्तेः स्वतोऽपुरुषार्थतया फलत्वायोगात्तस्या रसाखादौपयिकत्वेन फलत्वं प्रेक्षावतां प्रकृतग्रन्थप्रवृत्तये सूचयितुं
शृङ्गाररसाधिदैवतं श्रीकृष्णं प्रति रसास्वादानन्दं प्रार्थयते – उद्घाट्येति ॥ स मुकुन्दो मे मह्यं शश्वद्भवं शाश्वतिकं भग्नावरणतया सदा प्रकाशमानं श्रेयो विगलितवेद्यान्तरमानन्दं 'रसो वै सः' इति श्रुतेः रसपदाभिधेयं दिशतु । ददात्वित्यर्थः । यथाश्रुते मुक्तिप्रार्थनायाः प्रकृतेऽसङ्गत्यापत्तेः । स कः । यो धन्यैर्महामहिमपुण्यशालिभिर्नारदादिमुनिभिर्योगकलया योगकौशलेन [^१] हृदयाब्जस्य उरसे मध्यवर्तिनो हृदयपुण्डरीकस्य कोशं मुकुलमधोमुखतया विद्यमानमुद्धाट्य रेचक