This page has been fully proofread twice.

भावसंध्यलंकारः १०६
 
भावसंधिर्यथा --
 
एकाभूत्कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली
जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली ।
लोलाक्षीं क्षणमात्रभाविविरहक्लेशासहां पश्यतो
द्रागाकर्णयतश्च वीर भवतः प्रौढाहवाडम्बरम् ॥
 
अत्र रमणीप्रेमरणौत्सुक्ययोः संधिः प्रभुविषयभावस्याङ्गम् ।
 
-----------------
 
भावशबलालंकारः १०७
 
भावशबलं यथा --
 
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥
 
अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता विप्रलम्भशृङ्गारस्याङ्गम् ॥
 
-------------
 
प्रत्यक्षालंकारः १०८
 
प्रमाणालंकारे प्रत्यक्षं यथा --
 
क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः ॥
 
[commentary]
 
मत्प्रियो नलः पत्रिणा हंसेन पादेन विलिख्य अदर्शि दर्शितः ॥ एकेति ॥ हे वीर, क्षणमात्रेण युद्धप्रस्थानाद्भावी यो विरहक्लेशस्तदसहिष्णुं लोलाक्षीं दयितां पश्यतस्तथा प्रौढसंग्रामाडम्बरमाकर्णयतश्च भवतः एका कपोलस्थली द्राक् शीघ्रं पुलकैः कुसुमायुधस्य मदनस्येषुधिस्तरुणीव प्रव्यक्ता पुङ्खावली शरपुङ्खपङ्क्तिर्यत्र तथाभूताभूत् । अन्या द्वितीया जेतुर्जयशीलस्य मङ्गलपालिका मङ्गलरूपा पालिका या कुशकाशादिनिर्मिता उभयपार्श्वस्तम्भवृक्षादिषु बद्धा मार्गपालीति प्रसिद्धा तद्वदभूदित्यर्थः । अत्र प्रेमपदोक्ताया रतेरपरिपुष्टत्वाद्भावरूपत्वं बोध्यम् ॥ क्वाकार्यमिति ॥ शुक्रकन्यां देवयानीं दृष्टवतो राज्ञो ययातेरियमुक्तिः । अकार्यं ब्राह्मणकन्यासक्तिः । शशलाञ्छनस्य चन्द्रस्य कुलं सोमवंशः । अयं वितर्कः । तदुपमर्देन भूयोऽपीत्यौत्सुक्यम् । एवमग्रेऽपि । श्रुतं शास्त्रश्रवणमिति मतिः । अहो कोपेऽपीति स्मरणम् । अपगतकल्मषाः कृते सुकृते धीर्येषां ते किं वदिष्यन्तीति शङ्का । स्वप्नेऽपीति दैन्यम् । हे चेतः, स्वास्थ्यमुपैहीति धैर्यम् । कः खलु धन्यो युवा तरुणोऽधरं धास्यति पास्यतीति चिन्ता । विप्रलम्भो वियोग इति पर्यायौ ॥
 
क्रान्तेति ॥ इन्द्रियाणां वर्गः समूहः । मधुनि मद्ये निर्ववार निर्वृतिं प्राप ।