This page has not been fully proofread.

भावोदयालंकारः १०५] अलंकारचन्द्रिकासहितः ।
 
तिष्ठन्ति स्तिमिताः प्ररूढपुलकास्ते विस्मृतोपक्रमा-
स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाङ्गैरपि ॥
 
अत्र प्रभुविषयरतिभावस्य शृङ्गाररसाभासोऽङ्गम् । यथावा-
त्वयि लोचनगोचरं गते सफलं जन्म नृसिंह भूपते ।
अजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः ॥
अत्र कवेः प्रभुविषयस्य रतिभावस्य तद्विषयद्विषद्गणरतिरूपो भावाभा-
सोऽङ्गम् ।
 
समाहितालंकारः १०४
 
पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बितं
 
किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरे
 
सव्याजं हसितं मया धृतिहरो मुक्तस्तु बाष्पस्तया ॥
अत्र शृङ्गारस्य कोपशान्तिरङ्गम् ॥
 
भावोदयालंकारः १०५
 
तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी ।
अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्प्रियः ॥
अत्र नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शृङ्गाररसस्याङ्गम् ।
 
समाहितं यथा-
१७१
 
भावोदयो यथा -
 
-
 
प्रत्यर्थिनः शत्रवो वसुन्धरेशा भूपास्तेषां तरुणीर्विलुण्ठितुं याताः किराता भिल्लाः
तासां तरुणीनामुत्तरलैरतिचपलैः स्तनैरतितरामतिशयेन लोलैश्चञ्चलैरपाङ्गैर्नेत्रप्रा-
न्तैश्च तैः स्तिमिताः स्तब्धाः प्रोद्गतरोमाञ्चा विस्मृत उपक्रमो लुण्ठनरूपो यैस्ता-
दृशास्तिष्ठन्तीत्यन्वयः । अत्र शृङ्गारस्याननुरक्तराजवनिताविषयत्वादनौचित्येन
प्रवृत्तिरित्याभासरूपत्वम् ॥ त्वयीति ॥ अजनिष्ट अभूत् । युधि संग्रामे ॥
तद्विषयेति ॥ प्रभुविषया द्विषद्द्वणस्य या रतिस्तद्रूप इत्यर्थः । अत्र शत्रुविषय-
कत्वरूपानौचित्येन प्रवर्तितत्वाद्भावस्याभासत्वम् ॥ पश्याम इति ॥ नायकस्य
स्वमित्रं प्रति नायिकावृत्तान्तोक्तिः । मयि तूष्णींभूते किमियं प्रपद्यते कुरुते तत्प-
श्याम इत्यभिप्रायेण मया स्थैर्य मौनरूपमालम्बितमङ्गीकृतम् । पश्याम इति
बहुवचनं सखीसमानाभिप्रायम् । एवं तयाप्ययं खलु शठो मां किमिति नालप-
ति भाषत इति कोप आश्रितः इत्यन्योन्यं परस्परं विलक्ष्या लक्ष्यरहिता या
दृष्टिस्तत्र चतुरे । सव्याजं निमित्तान्तरव्याजसहितम् ॥
 
तदिति ॥ एधि भव । निनीषामि नेतुमिच्छामि । यतस्तवैव रूपेण समः स