2023-04-13 06:30:29 by Bharadwajraki
This page has been fully proofread once and needs a second look.
स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाङ्गैरपि ॥
अत्र प्रभुविषयरतिभावस्य शृङ्गाररसाभासोऽङ्गम् । यथावा
त्वयि लोचनगोचरं गते सफलं जन्म नृसिंह भूपते ।
अजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः ॥
अत्र कवेः प्रभुविषयस्य रतिभावस्य तद्विषयद्विषद्गणरतिरूपो भावाभा
--------------
समाहितालंकारः १०४
समाहितं यथा --
पश्यामः किमियं प्रपद्यत इति स्थैर्
किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्ष्यदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो मुक्तस्तु बाष्पस्तया ॥
अत्र शृङ्गारस्य कोपशान्तिरङ्गम् ॥
---------------
भावोदयालंकारः १०५
भावोदयो यथा --
तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी ।
अदर्शि पादेन विलिख्य पत्रिणा तवैव रूपेण समः स मत्प्रियः ॥
अत्र नलं प्रति दमयन्त्या औत्सुक्यरूपभावस्योदयः शृङ्गाररसस्याङ्गम् ।
समाहितं यथा-
१७१
भावोदयो यथा -
-
[commentary]
प्रत्यर्थिनः शत्रवो वसुन्धरेशा भूपास्तेषां तरुणीर्विलुण्ठितुं याताः किराता भिल्लाः
तदिति ॥ एधि भव । निनीषामि नेतुमिच्छामि । यतस्तवैव रूपेण समः स