This page has been fully proofread twice.

मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः ।
येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥
 
अत्र मुनि विषयरतिरूपस्य भावस्याद्भुतरसोऽङ्गम् । यथावा --
 
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥
 
अत्र करुणस्य शृङ्गारोऽङ्गम् ॥
 
-----------------
 
प्रेयोलंकारस्य भावालंकारत्वम् १०२
 
प्रेयोलंकार एव भावालंकार उच्यते । स यथा --
 
कदा वाराणस्याममरतटिनीरोधसि वस-
न्वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥
 
अत्र शान्तिरसस्य कदेति पदसूचितचिन्ताख्यो व्यभिचारिभावोऽङ्गम् । यथावा --
 
अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय-
स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः ।
आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव-
स्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥
 
अत्र प्रभुविषयरतिभावस्य वसुमतीविषयरतिभावोऽङ्गम् ॥
 
--------------
 
ऊर्जस्वदलंकारः १०३
 
ऊर्जस्वी यथा --
 
त्वत्प्रत्यर्थिवसुन्धरेशतरुणी:णीः संत्रासतः सत्वरं
यान्तीर्वीर विलुण्ठितुं सरभसं याताः किराता वने ।
 
[commentary]
 
वोऽगस्त्यः । एकचुलकेन समुद्रे पीयमाने तदन्तर्गतयोरवताररूपयोर्मत्स्यकूर्मयोर्दर्शनेन गम्योऽद्भुतरसो मु[^१]निप्रभावातिशयपर्यवसन्नतया तद्विषयरतिपोषकत्वात्तदङ्गमिति भावः ॥ अयमिति ॥ भूरिश्रवसश्छिन्नं हस्तमालोक्य तद्वधूनामुक्तिः । स पूर्वानुभूतोऽयं करः । यः काञ्चीसमाकर्षणशीलः । नीवी वसनप्ग्रन्थिस्तस्या विस्रंसनो मोचक इति स्मर्यमाणया शृङ्गारावस्थया करुणरसपरिपोषः ॥
 
कदेति ॥ निमिषमिव दिवसान्कदा नेष्यामीत्यन्वयः । कीदृशः । काश्यां गङ्गातीरे वसन् । अये इत्यादेरिति क्रोशन्नित्यनेनान्वयः ॥ अत्युच्चा इति ॥ स्फारा विस्तीर्णाः । प्रस्तौमि प्रसंजयामि । भुवः पृथिव्याः । इमां भुवं बिभ्रद्धारयमाणः ॥ त्वत्प्रत्यर्थीति ॥ हे वीर, संत्रासतो भयाद्वने सत्वरं गच्छतीस्तव
 
[^१] 'प्रेमभावातिशय'.