This page has been fully proofread once and needs a second look.

१७०
 
कुवलयानन्दः । [ ऊर्जस्वदलंकारः १०३
 
मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः ।

येनैकचुलके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥

 
अत्र मुनि विषयरतिरूपस्य भावस्याद्भुतरसोऽङ्गम् । यथावा-
--
 
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।

नाभ्यूरुजघनस्पर्शी नीवी विस्रंसनः करः ॥

 
अत्र करुणस्य शृङ्गारोऽङ्गम् ॥
 

 
-----------------
 
प्रेयोलंकारस्य भावालंकारत्वम् १०२

 
प्रेयोलंकार एव भावालंकार उच्यते । स यथा- -
--
 
कदा वाराणस्याममरतटिनीरोधसि वस-

न्वसान:नः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।

अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
 

प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥

 
अत्र शान्तिरसस्य कदेति पदसूचितचिन्ताख्यो व्यभिचारिभावोऽङ्गम् ।
यथावा--
--
 
अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय-

स्तानेतानपि बिभ्रती किमपि न श्रान्तासि तुभ्यं नमः ।

आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव-

स्तावद्विबिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥

 
न्नत्र प्रभुविषयरतिभावस्य वसुमतीविषयरतिभावोऽङ्गम् ॥
 

 
--------------
 
ऊर्जस्वदलंकारः १०३
 

 
ऊर्जस्वी यथा --
 
त्वत्प्रत्यर्थिवसुन्धरेशतरुणी: संत्रासतः सत्वरं

यान्तीर्वीर विलुण्ठितुं सरभसं याताः किराता वने ।
 
ऊर्जस्वी यथा-

 
[commentary]
 
वोऽगस्त्यः । एकचुलकेन समुद्रे पीयमाने तदन्तर्गतयोरवताररूपयोर्मत्स्य कूर्म-
योर्दर्शनेन गम्योऽद्भुतरसो मु[^१]निप्रभावातिशय पर्यवसन्नतया तद्विषयरतिपोषक -
त्वात्तदङ्गमिति भावः ॥ अयमिति ॥ भूरिश्रवसरिछश्छिन्नं हस्तमालोक्य तद्वधूना-
मुक्तिः । स पूर्वानुभूतोऽयं करः । यः काञ्चीसमाकर्षणशीलः । नीवी वसनप्रन्थि-
स्तस्या विस्रंसनो मोचक इति स्मर्यमाणया शृङ्गारावस्थया करुणरसपरिपोषः ॥
 

 
कदेति ॥ निमिषमिव दिवसान्कदा नेष्यामीत्यन्वयः । कीदृशः । काश्यां ग-
ङ्गातीरे वसन् । अये इत्यादेरिति क्रोशन्नित्यनेनान्वयः ॥ अत्युच्चा इति ॥
स्फारा विस्तीर्णाः । प्रस्तौमि प्रसंजयामि । भुवः पृथिव्याः । इमां भुवं बिभ्रद्धारय-
माणः ॥ त्वत्प्रत्यर्थीति ॥ हे वीर, संत्रासतो भयाद्वने सत्वरं गच्छतीस्तव
 

 
[^
] 'प्रेमभावातिशय '.