2023-04-28 05:30:15 by Bharadwajraki
This page has been fully proofread twice.
एवं पञ्चदशान्यानप्यलंकारान्विदुर्बुधाः ॥ १७१ ॥
तत्र विभावानुभावव्यभिचारिभिर्व्यञ्जितो रतिहासशोकादिभिश्चित्तवृत्तिविशेषो रसः स यत्र परस्याङ्गं भवति तत्र रसवदलंकारः । विभावानुभावाभ्यामभिव्यञ्जितो निर्वेदादिस्त्रयस्त्रिंशद्भेदो देवतागुरुशिष्यद्विजपुत्रादावभिव्यज्यमाना रतिश्च भावः । स यत्रापरस्याङ्गं स प्रेयोऽलंकारः ॥ अनौचित्येन प्रवृत्तो रसो भावश्च रसाभासो भावाभासश्चेत्युच्यते स यत्रापरस्याङ्गं तदूर्जस्वित् भावस्य प्रशाम्यदवस्था भावशान्तिः । तस्याः पराङ्गत्वे समाहितम् । भावस्योद्गमावस्था भावोदयः । द्वयोर्विरुद्धयोर्भावयोः परस्परस्पर्धा भावसंधिः । बहूनां भावानां पूर्वपूर्वोपमर्देनोत्पत्तिर्भावशबलता । एतेषामितराङ्गत्वे भावोदयादयस्त्रयोऽलंकाराः । तत्र रसवदुदाहरणम् --
[commentary]
ते च प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसंभवैतिह्याख्याः ॥ विभावेत्यादि ॥ रत्यादेरालम्बनोद्दीपनरूपाणि नायिकाचन्द्रोदयादीनि कारणानि काव्ये वर्ण्यमानानि विभावयन्तीति व्युत्पत्त्या विभावपदेनाभिधीयन्ते । कार्याणि च कटाक्षरोमाञ्चादीनि तथाविधान्येवानु पश्चाद्भवन्तीति व्युत्पत्त्यानुभावपदेन । एषामेव कार्याणां रत्यादिनोत्पादने कर्तव्ये सहकारिभूतान्युत्कण्ठादीनि च व्यभिचारिपदेन विशेषादभितः समन्ततो ये स्थायिनं चारयन्तीति व्युत्पत्तेः । एवं
रतिरासक्त्यनुरागादिपर्यायबोध्यान्तःकरणवृत्तिः । विकृतिविदूषकादिचेष्टादर्शनजन्या चित्तस्य विकासरूपा वृत्तिर्हासः । इष्टनाशानिष्टलाभादिजन्या चित्तवृत्तिः शोकः प्रसिद्धः । आदिपदेन क्रोधोत्साहभयजुगुप्साविस्मयनिर्वेदाख्यानां षण्णां परिग्रहः । विशेषपदेन च रत्यादेः स्थायित्वप्रयोजकं परिपुष्टत्वं कान्ताविषयत्वमितरानङ्गत्वं च विवक्षितम् । तदुक्तम् -- 'रत्यादिश्चेन्निरङ्गः स्याद्देवादिविषयोऽथ वा । अन्याङ्गभावभाग्वा स्यान्न तदा स्थायिशब्दभाक् ॥' इति । स्थायिन एव चाभिव्यक्तरसत्वम् । यदाहुः -- 'कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः
स्थायिना लोके तानि चेन्नाट्यकाव्ययोः ॥ विभावा अनुभावास्ते कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः ॥' इति । अभिव्यक्तानां च रत्यादीनां रसरूपाणां क्रमाच्छृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्साद्भुतशान्तरूपविशेषसंज्ञा बोध्याः ॥ निर्वेदादिरिति ॥ 'निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा
चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रा विस्मृतिरेव च ॥ स्वप्नो विबोधोऽमर्षश्चाप्यवहित्थमथोप्ग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥’ इति भरतेनोक्ताः । लज्जादिना विकारगोपनमवहित्थाख्यो भावः । देवतेत्याद्यपरिपुष्टत्वादेरुपलक्षणम् । रतिरिति चापुष्टहासादेः ॥ अनौचित्येनेति ॥ एतच्चोदाहरणे दर्शयिष्यामः ॥ मुनिरिति ॥ कुम्भसंभ-