This page has not been fully proofread.

कुवलयानन्दः । [ रसवदलंकारः १०१
हेतुं केचित्प्रचक्षते ।
 
हेतुहेतुमतोरैक्यं
 
लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः ॥ १६८ ॥
अत्र च कार्यावश्यंभावतच्छैन्यादिप्रत्यायनार्थः कार्यकारणभेदव्यपदेशः ॥
 
यथावा-
१६८
 
आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमा
न्विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः ।
आनन्द: कलिताकृतिः सुमनसां वीरश्रियो जीवितं
धर्मस्यैष निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥
अत्र दानमहोत्सवायुष्करत्वादिनाध्यवसिते राज्ञि तदायुवादिव्यपदेशः १६८
इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः ।
प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः ॥ १६९ ॥
 
रसवदलंकारः १०१
रसभावतदाभासभावशान्तिनिबन्धनाः ।
चत्वारो रसवत्प्रेय ऊर्जस्विच समाहितम् ॥ १७० ॥
भावस्य चोदयः संधिः शबलत्वमिति त्रयः ।
अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् ॥
 
नं कृत्वा गते सति । हे तृष्णे, त्वामनुसरतामुना जनेनैतावत्फलं प्राप्तम् । यत्पादे
नापि यो न स्पृष्टः स एव चरणौ स्वीयौ स्प्रष्टुं न सम्यक् मन्यते अनुजानाती-
त्यन्वयः । अत्र तृष्णारूपहेतुतत्कार्ययोः स्पष्टमभिधानम् ॥ १६७ ॥ भेदान्तरमाह-
हेतुहेतुमतोरिति ॥ केचिद्भोद्भटप्रभृतयः । तदुक्तम् – 'हेतुमता सह हेतो-
रभिधानमभेदता हेतुः' इति ॥ लक्ष्मीति ॥ कटाक्षा विदुषां लक्ष्मी विलासा
इत्यन्वयः । अत्र विलास हेतोर्विलासाभिन्नत्वेनाभिधानम् । एवंविधलक्षणायाः
प्रयोजनमाह — अत्रेति ॥ कार्यावश्यंभावश्च तच्छेध्यं चेति विग्रहः । आदिना
अपथ्याशनं रोग इत्यादौ कार्यगतोपादेयत्वानुपादेयत्वादिसंग्रहः ॥ आयुरिति ॥
वीरः कलिङ्गेश्वरः कलिङ्गदेशाधिपो विजयत इत्यन्वयः । कीदृशः । दानरूपस्य
महोत्सवस्य आयुरिति कार्याभिन्नत्वेनाभिधानम् । एवमग्रेऽपि । विशेषेण नतानां
क्षोणीभृतां राज्ञां कलिताकृतिर्वृताकारः । वीरश्रियो वीरलक्ष्म्याः निकेतनं
स्थानम् ॥ १६८ ॥
 
-
 
इति श्रीमत्पदवाक्य प्रमाणाभिज्ञतत्सदुपाख्यभट्ट विद्रु लसूरिवरात्मजश्रीरामचन्द्र-
सूरिसूनुना वैद्यनाथेन कृतायामलंकारचन्द्रिकाख्यायां कुवलयानन्द-
टीकायां हेत्वलंकारप्रकरणं संपूर्णम् ॥ १०० ॥
भावस्येति ॥ निर्वेदादेर्व्यभिचारिभावस्येत्यर्थः । प्रत्यक्षप्रमुखाः प्रत्यक्षाद्याः।
१ 'कंचित्'.