This page has been fully proofread twice.

हेतुहेतुमतोरैक्यं हेतुं केचि[^१]त्प्रचक्षते ।
लक्ष्मीविलासा विदुषां कटाक्षा वेङ्कटप्रभोः ॥ १६८ ॥
 
अत्र च कार्यावश्यंभावतच्छैन्घ्र्यादिप्रत्यायनार्थः कार्यकारणभेदव्यपदेशः ॥
 
यथावा --
 
आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमा-
न्विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः ।
आनन्द: कलिताकृतिः सुमनसां वीरश्रियो जीवितं
धर्मस्यैष निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥
 
अत्र दानमहोत्सवायुष्करत्वादिनाध्यवसिते राज्ञि तदायुष्ट्वावादिव्यपदेशः १६८
 
इत्थं शतमलंकारा लक्षयित्वा निदर्शिताः ।
प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः ॥ १६९ ॥
 
------------
 
रसवदलंकारः १०१
 
रसभावतदाभासभावशान्तिनिबन्धनाः ।
चत्वारो रसवत्प्रेय ऊर्जस्विच्च समाहितम् ॥ १७० ॥
 
भावस्य चोदयः सन्धिः शबलत्वमिति त्रयः ।
अष्टौ प्रमाणालंकाराः प्रत्यक्षप्रमुखाः क्रमात् ॥
 
[commentary]
 
नं कृत्वा गते सति । हे तृष्णे, त्वामनुसरतामुना जनेनैतावत्फलं प्राप्तम् । यत्पादेनापि यो न स्पृष्टः स एव चरणौ स्वीयौ स्प्रष्टुं न सम्यक् मन्यते अनुजानातीत्यन्वयः । अत्र तृष्णारूपहेतुतत्कार्ययोः स्पष्टमभिधानम् ॥ १६७ ॥ भेदान्तरमाह -- हेतुहेतुमतोरिति ॥ केचिद्भट्टोद्भटप्रभृतयः । तदुक्तम् -- 'हेतुमता सह हेतोरभिधानमभेदता हेतुः' इति ॥ लक्ष्मीति ॥ कटाक्षा विदुषां लक्ष्मीविलासा इत्यन्वयः । अत्र विलासहेतोर्विलासाभिन्नत्वेनाभिधानम् । एवंविधलक्षणायाः प्रयोजनमाह -- अत्रेति ॥ कार्यावश्यंभावश्च तच्छेध्छैघ्र्यं चेति विग्रहः । आदिना
अपथ्याशनं रोग इत्यादौ कार्यगतोपादेयत्वानुपादेयत्वादिसंग्रहः ॥ आयुरिति ॥ वीरः कलिङ्गेश्वरः कलिङ्गदेशाधिपो विजयत इत्यन्वयः । कीदृशः । दानरूपस्य महोत्सवस्य आयुरिति कार्याभिन्नत्वेनाभिधानम् । एवमग्रेऽपि । विशेषेण नतानां क्षोणीभृतां राज्ञां कलिताकृतिर्धृताकारः । वीरश्रियो वीरलक्ष्म्याः निकेतनं स्थानम् ॥ १६८ ॥
 
इति श्रीमत्पदवाक्यप्रमाणाभिज्ञतत्सदुपाख्यभट्टविद्रुट्ठलसूरिवरात्मजश्रीरामचन्द्रसूरिसूनुना वैद्यनाथेन कृतायामलंकारचन्द्रिकाख्यायां कुवलयानन्दटीकायां हेत्वलंकारप्रकरणं संपूर्णम् ॥ १०० ॥

भावस्येति ॥ निर्वेदादेर्व्यभिचारिभावस्येत्यर्थः । प्रत्यक्षप्रमुखाः प्रत्यक्षाद्याः।
 
[^१] 'कंचित्'.