2023-02-17 12:59:09 by ambuda-bot
This page has not been fully proofread.
हेत्वलंकारः १००] अलंकारचन्द्रिकासहितः ।
१६७
अत्र रामस्य स्वहस्तं प्रति रामस्य गात्रमसीति वचनमनुपयुक्तं सद्रामस्ये-
त्यनेन स्वस्यात्यन्तनिष्करुणत्वं गर्भीकरोति । तच्च निर्भरेत्यादिविशेषणेनावि-
ष्कृतम् । यद्यप्यनयोर्विधिनिषेधयोरुदाहरणेषु व्यङ्ग्यान्यर्थान्तरसंक्रमितवा-
च्यरूपाणि तथापि न ध्वनिभावास्पदानि । स्वोत्तयैव व्यङ्ग्य विशेषाविष्कर-
णात् । व्यङ्ग्याविष्करणे चालंकारत्वमेवेति प्राक्प्रस्तुताङ्कुरप्रकरणे व्यवस्थित
त्वात् । पूर्वं बाधितौ प्रतिषेधौ आक्षेपभेदत्वेनोक्तौ । इह तु प्रसिद्धौ विधि-
प्रतिषेधौ तत्प्रतिद्वन्द्विनावलंकारत्वेन वर्णिताविति भेदः ॥ १६६ ॥
हेत्वलंकारः १००
हेतोर्हेतुमता सार्धं वर्णनं हेतुरुच्यते ।
असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १६७ ॥
यथावा-
एष ते विद्रुमच्छायो मरुमार्ग इवाधरः ।
कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥
माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां हियां
स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते ।
तृष्णे त्वामनुबनता फलमियत्प्राप्तं जनेनामुना
यत्स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥
इत्युदाहरणम् ॥ १६७ ॥
।
शूद्रतपस्याजनिताधर्मवशादपूर्णायुषि द्विजबाल के मृते तद्वधोद्यतस्य रामस्य स्वहस्तं
प्रतीयमुक्तिः । जीवातवे जीवनाय । शूद्र एव तपश्चरणान्मुनिरिव मुनिस्तस्मि-
कृपाणं खड्गं विसृज निक्षिप । यतो रामस्याकरुणस्य गात्रं शरीरमसि । निर्भरम-
तिशयेन गर्भखिन्नायाः सीतायाः प्रवासनं निर्वासनं तत्र पटोर्हढस्येत्यर्थः । अत्र
रामपदमकरुणत्वरूपार्थान्तरसंक्रमितम् । तदतिशयो व्यङ्ग्यः । स चात्यन्तमित्यने-
नोक्तः । ध्वनिभावास्पदानि ध्वनित्वप्रयोजकानि ॥ व्यवस्थितत्वादिति ॥
'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः । यत्राविष्क्रियते खोक्त्या
सान्यैवालंकृतिर्ध्वनेः ॥' इति ध्वनिकारवचनेन निर्णीतत्वादित्यर्थः ॥ उक्ताविति ॥
'निषेधाभासमाक्षेपं बुधाः केचन मन्वते । आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च
तिरोहिते ॥' इत्येताभ्यां नाहं दूती, गच्छ गच्छसीत्युदाहरणयोः प्रतिपादितावि-
त्यर्थः । प्रसिद्धत्वाद्बाधितप्रतिद्वन्द्विम् ॥ १६६ ॥ इति विध्यलंकारः ॥ ९९ ॥
च
हेतोरिति ॥ हेतुमता कार्येण । मानच्छेदः कार्यम् ॥ एष इति ॥ विदु-
मच्छायः प्रवालकान्तिर्विगततरुच्छायश्च मरुर्निर्जलदेशः ॥ माने इति ॥ माने
नेच्छति अनिच्छति सति । एवमुपशमे वारयति सति । हियां लज्जायां क्ष्मां भू-
मिमालिखन्त्याम् । भूम्युल्लेखनस्य तदनुभावत्वात् । स्वातन्त्र्ये च परिवृत्य परा
भूय तिष्ठति सति । धैर्ये करौ व्याधूय मम नानुमतमिति सूचनाय हस्तधून-