2023-04-12 15:17:48 by Bharadwajraki
This page has been fully proofread once and needs a second look.
१६७
-----------
हेत्वलंकारः १००
हेतोर्हेतुमता सार्धं वर्णनं हेतुरुच्यते ।
असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १६७ ॥
यथावा -
एष ते विद्रुमच्छायो मरुमार्ग इवाधरः ।
कस्य नो तनुते तन्वि पिपासाकुलितं मनः ॥
माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां
स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते ।
तृष्णे त्वामनुबध्नता फलमियत्प्राप्तं जनेनामुना
यत्स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥
।
[commentary]
शूद्रतपस्याजनिताधर्मवशादपूर्णायुषि द्विजबाल
प्रतीयमुक्तिः । जीवातवे जीवनाय । शूद्र एव तपश्चरणान्मुनिरिव मुनिस्तस्मि
च
हेतोरिति ॥ हेतुमता कार्येण । मानच्छेदः कार्यम् ॥ एष इति ॥ विदु