This page has not been fully proofread.

१६६
 
कुवलयानन्दः । [ विध्यलंकारः ९९
प्रतिषेधालंकारः ९८
 
प्रतिषघः प्रसिद्धस्य निषेधस्यानुकीर्तनम् ।
 
न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः ॥ १६५ ॥
निर्ज्ञातो निषेधः स्वतोऽनुपयुक्तत्वादर्थान्तरं गर्भीकरोति । तेन चारुता-
न्वितोऽयं प्रतिषेधनामालंकारः । उदाहरणं युद्धरङ्गे प्रत्यवतिष्ठमानं शाकुनिकं
प्रति विदग्धवचनम् । अत्र युद्धस्याक्ष द्यूतत्वाभावो निर्ज्ञात एव कीर्त्यमानस्त-
त्रेव तव प्रागल्भ्यं न युद्धे व्युत्पत्तिग्रहोऽस्तीत्युपहासं गर्भीकरोति तच्च कि-
तवेनाविष्कृतम् । यथावा-
न विषेण न शस्त्रेण नाग्निना न च मृत्युना ।
अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥
 
-
 
अत्र स्त्रीणां विषादिनिमित्तत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तासां विषा-
द्यतिशायि क्रौर्यमित्यमुमर्थ व्यक्तीकरोति स चाप्रतीकारपारुष्या इति
प्रतीकारवयो विषादिभ्यस्तासां विशेषं दर्शयता विशेषणेनाविष्कृतः ॥ १६५ ॥
 
विध्यलंकारः ९९
 
सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम् ।
 
पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत् ॥१६६ ॥
निर्ज्ञातविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भीकरणेन चारुतरमिति तं
विधिनामानमलंकारमाहुः । उदाहरणे कोकिलस्य कोकिलत्वविधानमनुपयुक्तं
सदतिमधुरपञ्चमध्वनिशालितया सकलजनहृद्यत्वं गर्भीकरोति । तच्च पञ्चमो-
दञ्चने इति कालविशेषणेनाविष्कृतम् । यथावा-
हे हस्त दक्षिण मृतस्य शिशोद्विजस्य
जीवातवे विसृज शुद्रमुनौ कृपाणम् ।
रामस्य गात्रमसि निर्भरगर्भखिन्न-
सीताप्रवासनपटोः करुणा कुतस्ते ॥
 
कितवो द्यूतकृत् । 'धूर्तोऽक्षदेवी कितवः' इत्यमरः । ननु प्रसिद्धानुवादस्या-
चमत्कारित्वात्कथमलंकारत्वमत आह - निर्ज्ञात इति ॥ शकुनैः पाशकैर्दीव्य-
तीति शाकुनिकः । आविष्कृतमिति ध्वनित्वशङ्का निवारणम् । एवमग्रेऽपि ॥ १६५ ॥
इति प्रतिषेधालंकारः ॥ ९८ ॥
 
पञ्चमस्य स्वरविशेषस्योदञ्चनमाविष्करणं यत्र तादृशे काले कोकिलः कोकिलो
मधुरध्वनिरभवदित्यर्थः । द्वितीयको किलपदस्यानुपयुक्तार्थत्वेनार्थान्तरे संक्रमित
त्वात् । सकलजनहृद्यत्वप्रतीतिश्च प्रयोजनम् । एवंच शालितयेत्यनन्तरं लक्षितये-
ति शेषो बोध्यः । पूर्ववव नित्वाशङ्का निवारणाय तच्चेत्याद्युक्तम् ॥ हे हस्तेति ॥
१ 'भवेत् ' . २ 'निवासन'; 'विवासन'.
 
-