2023-04-28 04:55:03 by Bharadwajraki
This page has been fully proofread twice.
प्रतिषेधालंकारः ९८
प्रतिषघः प्रसिद्धस्य निषेधस्यानुकीर्तनम् ।
न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः ॥ १६५ ॥
निर्ज्ञातो निषेधः स्वतोऽनुपयुक्तत्वादर्थान्तरं गर्भीकरोति । तेन चारुतान्वितोऽयं प्रतिषेधनामालंकारः । उदाहरणं युद्धरङ्गे प्रत्यवतिष्ठमानं शाकुनिकं प्रति विदग्धवचनम् । अत्र युद्धस्याक्षद्यूतत्वाभावो निर्ज्ञात एव कीर्त्यमानस्तत्रेव तव प्रागल्भ्यं न युद्धे व्युत्पत्तिग्रहोऽस्तीत्युपहासं गर्भीकरोति तच्च कितवेनाविष्कृतम् । यथावा --
न विषेण न शस्त्रेण नाग्निना न च मृत्युना ।
अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥
अत्र स्त्रीणां विषादिनिमित्तत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तासां विषाद्यतिशायि क्रौर्यमित्यमुमर्थं व्यक्तीकरोति स चाप्रतीकारपारुष्या इति प्रतीकारवद्भ्यो विषादिभ्यस्तासां विशेषं दर्शयता विशेषणेनाविष्कृतः ॥ १६५ ॥
------------
विध्यलंकारः ९९
सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम् ।
पञ्चमोदञ्चने काले कोकिलः कोकिलोऽ[^१]भवत् ॥१६६ ॥
निर्ज्ञातविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भीकरणेन चारुतरमिति तं विधिनामानमलंकारमाहुः । उदाहरणे कोकिलस्य कोकिलत्वविधानमनुपयुक्तं
सदतिमधुरपञ्चमध्वनिशालितया सकलजनहृद्यत्वं गर्भीकरोति । तच्च पञ्चमोदञ्चने इति कालविशेषणेनाविष्कृतम् । यथावा --
हे हस्त दक्षिण मृतस्य शिशोद्विजस्य
जीवातवे विसृज शुद्रमुनौ कृपाणम् ।
रामस्य गात्रमसि निर्भरगर्भखिन्न-
सीताप्रवा[^२]सनपटोः करुणा कुतस्ते ॥
[commentary]
कितवो द्यूतकृत् । 'धूर्तोऽक्षदेवी कितवः' इत्यमरः । ननु प्रसिद्धानुवादस्या-चमत्कारित्वात्कथमलंकारत्वमत आह -- निर्ज्ञात इति ॥ शकुनैः पाशकैर्दीव्यतीति शाकुनिकः । आविष्कृतमिति ध्वनित्वशङ्कानिवारणम् । एवमग्रेऽपि ॥ १६५ ॥ इति प्रतिषेधालंकारः ॥ ९८ ॥
पञ्चमस्य स्वरविशेषस्योदञ्चनमाविष्करणं यत्र तादृशे काले कोकिलः कोकिलो मधुरध्वनिरभवदित्यर्थः । द्वितीयकोकिलपदस्यानुपयुक्तार्थत्वेनार्थान्तरे संक्रमितत्वात् । सकलजनहृद्यत्वप्रतीतिश्च प्रयोजनम् । एवंच शालितयेत्यनन्तरं लक्षितयेति शेषो बोध्यः । पूर्ववद्ध्वनित्वाशङ्कानिवारणाय तच्चेत्याद्युक्तम् ॥ हे हस्तेति ॥
[^१] 'भवेत् '.
[^२] 'निवासन' ;
[^३]'विवासन'.
-
प्रतिषघः प्रसिद्धस्य निषेधस्यानुकीर्तनम् ।
न द्यूतमेतत्कितव क्रीडनं निशितैः शरैः ॥ १६५ ॥
निर्ज्ञातो निषेधः स्वतोऽनुपयुक्तत्वादर्थान्तरं गर्भीकरोति । तेन चारुतान्वितोऽयं प्रतिषेधनामालंकारः । उदाहरणं युद्धरङ्गे प्रत्यवतिष्ठमानं शाकुनिकं प्रति विदग्धवचनम् । अत्र युद्धस्याक्षद्यूतत्वाभावो निर्ज्ञात एव कीर्त्यमानस्तत्रेव तव प्रागल्भ्यं न युद्धे व्युत्पत्तिग्रहोऽस्तीत्युपहासं गर्भीकरोति तच्च कितवेनाविष्कृतम् । यथावा --
न विषेण न शस्त्रेण नाग्निना न च मृत्युना ।
अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥
अत्र स्त्रीणां विषादिनिमित्तत्वाभावः प्रसिद्ध एव कीर्त्यमानस्तासां विषाद्यतिशायि क्रौर्यमित्यमुमर्थं व्यक्तीकरोति स चाप्रतीकारपारुष्या इति प्रतीकारवद्भ्यो विषादिभ्यस्तासां विशेषं दर्शयता विशेषणेनाविष्कृतः ॥ १६५ ॥
------------
विध्यलंकारः ९९
सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम् ।
पञ्चमोदञ्चने काले कोकिलः कोकिलोऽ[^१]भवत् ॥१६६ ॥
निर्ज्ञातविधानमनुपयुक्तिबाधितं सदर्थान्तरगर्भीकरणेन चारुतरमिति तं विधिनामानमलंकारमाहुः । उदाहरणे कोकिलस्य कोकिलत्वविधानमनुपयुक्तं
सदतिमधुरपञ्चमध्वनिशालितया सकलजनहृद्यत्वं गर्भीकरोति । तच्च पञ्चमोदञ्चने इति कालविशेषणेनाविष्कृतम् । यथावा --
हे हस्त दक्षिण मृतस्य शिशोद्विजस्य
जीवातवे विसृज शुद्रमुनौ कृपाणम् ।
रामस्य गात्रमसि निर्भरगर्भखिन्न-
सीताप्रवा[^२]सनपटोः करुणा कुतस्ते ॥
[commentary]
कितवो द्यूतकृत् । 'धूर्तोऽक्षदेवी कितवः' इत्यमरः । ननु प्रसिद्धानुवादस्या
पञ्चमस्य स्वरविशेषस्योदञ्चनमाविष्करणं यत्र तादृशे काले कोकिलः कोकिलो मधुरध्वनिरभवदित्यर्थः । द्वितीयकोकिलपदस्यानुपयुक्तार्थत्वेनार्थान्तरे संक्रमितत्वात् । सकलजनहृद्यत्वप्रतीतिश्च प्रयोजनम् । एवंच शालितयेत्यनन्तरं लक्षितयेति शेषो बोध्यः । पूर्ववद्ध्वनित्वाशङ्कानिवारणाय तच्चेत्याद्युक्तम् ॥ हे हस्तेति ॥
[^१] 'भवेत्
[^२] 'निवासन' ;
[^३]
-