2023-02-17 12:59:08 by ambuda-bot
This page has not been fully proofread.
निरुक्त्यलंकारः ९७] अलंकारचन्द्रिकासहितः ।
इयमौदार्यात्युक्तिः । शौर्यात्युक्तिर्यथा-
राजन्सप्ताप्यकूपारास्त्वत्प्रतापानिशोषिताः ।
पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः ॥
संपदत्युक्तावुदात्तालंकारः । शौर्यात्युक्तावत्युक्त्यलंकार इति भेदमाहुः ।
अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥
अल्पं निर्मितमाकाशमनालोच्येव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥
इत्यसदसदुक्तितारतम्येनातिशयात्युक्त्तयोर्भेदः ॥ १६३ ॥
निरुक्त्यलंकारः ९७
निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम् ।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ १६४ ॥
यथावा-
पुराकवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा ।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ १६४ ॥
१६५
-
समुद्राः ॥ आहुरिति ॥ स्वमते तु तथ्यत्वातथ्यत्वाभ्यां भेद इति भावः । अ-
तथ्ये अद्भुतत्व विशेषणस्य कृत्यं दर्शयति - अनयोरित्यादि ॥ एतत्पद्यं 'यो-
गेऽप्ययोगोऽसंबन्धातिशयोक्ति' रित्यत्र प्रागुदाहृतम् ॥ असदुक्तितारतम्ये-
नेति ॥ अनयोरित्यत्रासदुक्तिमात्रम् । अल्पमिति पद्ये त्वत्यन्तासदुक्तिरिति ता-
रतम्येनेत्यर्थः । तथा चाद्भुतेति विशेषणादत्यन्तातथ्यरूपत्वलाभान्नातिशयोक्ता-
वतिव्याप्तिरिति भावः । अतएवानयोरिति पद्यानन्तरं दण्डिनोक्तम् – 'इति सं-
भाव्यमेवैतद्विशेषाख्यानसंस्कृतम्' इति । एवम् 'लोकातीत इवात्यर्थमध्यारोप्य
विवक्षितः । योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे यथा ॥' इत्युक्ता । अल्पं नि-
र्मितमित्याद्युदाहृत्य इदमत्युक्तिरित्युक्तमिति च ॥१६३ ॥ इत्यत्युक्त्यलंकारः ॥९६॥
▬▬▬▬▬▬▬▬▬▬
निरुक्तिरिति लक्ष्यम् । योगवशानाम्नामर्थ विशेषाभिधायिनामर्थान्तरोपवर्णन-
मिति लक्षणम् ॥ ईदृशैरिति ॥ चन्द्रं प्रति विरहिण्या उक्तिः । ईदृशैर्जनसंता-
पनरूपैः । दोषाया रात्रेः कर्ता दोषाणामाकरश्च ॥ पुरेति ॥ कनिष्ठिकाङ्गुलिवि-
शेषः । अधिष्ठितः कालिदासो यस्यां सा अङ्गुलिविशेषरूपा । अर्थवती न विद्यते
कविनाम यस्यां सेत्यन्वर्थनामवती ॥ १६४ ॥ इति निरुक्त्यलंकारः ॥ १७ ॥
१ 'त्वद्वेरिराजवनिता'.
कुव० १६