2023-04-12 15:00:28 by Bharadwajraki
This page has been fully proofread once and needs a second look.
राजन्सप्ताप्यकूपारास्त्वत्प्रतापाग्निशोषिताः ।
[^१]पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः ॥
संपदत्युक्तावुदात्तालंकारः । शौर्यात्युक्तावत्युक्त्यलंकार इति भेदमाहुः ।
अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥
अल्पं निर्मितमाकाशमनालोच्येव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥
इत्यसदसदुक्तितारतम्येनातिशयात्युक्त्तयोर्भेदः ॥ १६३ ॥
---------------
निरुक्त्यलंकारः ९७
निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम् ।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ १६४ ॥
यथावा
पुराकवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा ।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ १६४ ॥
१६५
-
[commentary]
समुद्राः ॥ आहुरिति ॥ स्वमते तु तथ्यत्वातथ्यत्वाभ्यां भेद इति भावः । अ
▬▬▬▬▬▬▬▬▬▬
निरुक्तिरिति लक्ष्यम् । योगवशान्नाम्नामर्थ
[^१
कुव० १६