This page has not been fully proofread.

१६४
 
कुवलयानन्दः । [ अत्युक्त्यलंकारः ९६
 
भाविकालंकारः ९४
 
भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् ।
अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः ॥ १६१ ॥
 
plish
 
-
 
स्थानभीषणोद्भावनपरमिदम् । यथावा-
अद्यापि तिष्ठति दृशोरिदमुत्तरीयं
धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ते ।
वाचं निशम्य नयनं नयनं ममेति
 
किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ १६१ ॥
 
उदात्तालंकारः ९५
उदात्तंमृद्धेश्वरितं श्लाघ्यं चान्योपलक्षणम् ।
सानौ यस्याभवयुद्धं तद्धूर्जटिकिरीटिनोः ॥ १६२ ॥
 
इदं श्लाघ्यचरितस्यान्याङ्गत्वे उदाहरणम् । ऋयुदाहरणं यथा-
रत्नस्तम्भेषु संक्राँन्तैः प्रतिबिम्बशतैर्वृतः ।
ज्ञातो लंकेश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ १६२ ॥
 
अत्युक्त्यलंकारः ९६
अत्युक्तिरद्भुतातथ्यशौयौदार्यादिवर्णनम् ।
त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ॥१६३॥
 
स्वभाववर्णनमत्र सलज्जक्रियास्वभाववर्णन मिति भेदः ॥ १६० ॥ इति स्वभावो-
त्यलंकारः ॥ ९३ ॥
 
भाविक मिति लक्ष्य निर्देशः ॥ अद्यापीति ॥ मम नयनं नयनमिति तस्या
वाचं निशम्य स्तनतटात्पतितमुत्तरीयं धर्तु पुरः प्रवृत्ते मयि सति तदा आय-
ताक्षी यत्किंचित्स्मितमकरोत् । इदमद्यापि मम दृशोः पुरस्तिष्ठतीत्यन्वयः । अत्र
नयनपदेन स्ववाचकत्वरूपशक्य संबन्धेन नेत्रपदं लक्ष्यते तस्माच्च वस्त्रप्रतीतिः ।
किंवा स्ववाचकवाच्यत्वरूपशक्य संबन्धेन वस्त्रमेव लक्षयतीति वचोबाणैरित्या-
दिवल्लक्षितलक्षणा वा वोध्या । 'नेत्रं पथि गुणे वस्त्रे' इति विश्वः ॥ १६१ ॥
इति भाविकालंकारः ॥ ९४ ॥
 

 
उदात्तमिति ॥ ऋद्धेः समृद्धेश्चरितमुदात्तमलंकारः । तथा श्लाघ्यं चरितम् ।
अन्यस्योपलक्षणमङ्गं चेत्तदपि तथा । सानौ शिखरे । यस्य पर्वतस्य । किरीटी
अर्जुनः । कृच्छ्रात्कष्टात् । आञ्जनेयेन हनूमता ॥ १६२ ॥ इत्युदात्तालंकारः ॥९५॥
अत्युक्तिरिति लक्ष्यनिर्देशः । अद्भुतं च तदतथ्यं मिथ्यारूपम् । अकूपाराः
 
१ 'समृद्धिं च'. २ 'यत्राभवत् '. ३ ' सक्रान्तः' ४ 'तथ्यं ' ५ 'याजका: '.